SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः॥ १७७ [धूः, धुरौ, धुरः] उर्वै (४७०) - तुर्वै (४७१) - थुः (४७२) - दुर्वै (४७३) - 'धुर्वै हिंसायाम्' (४७४) ति - धर्वतः - धर्वन्तीत्येवंशीलः = धुः - धुरौ - धुरः । अनेन क्विपप्र० । निपातनादेव दीर्घत्वम् । 'राल्लुक' (४।१।११०) व्लुक् ततो दीर्घत्वम् । सि-औ-जस् । [विद्युत् ] 'द्युति दीप्तौ' (९३७) द्युत्, विपूर्व० । विद्योतत इति विद्युत् । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।३।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । [विद्युतौ ] विद्योतेत इति विद्युतौ । अनेन क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा औ । [ऊ ] 'ऊर्जण् बल-प्राणनयोः' (१५८२) ऊ । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । ऊर्जयतीत्येवंशीलः = ऊर्छ । अनेन क्विप्र० । 'णेरनिटि' (४।३।८३) णिलुक् । 'अप्रयोगीत्' (१।३।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'विरामे वा' (१।३।५१) ग० → क० । [ऊर्जी ] ऊर्जयत इत्येवंशीलौ = ऊर्जी । अनेन क्विप्प्र० । 'णेरनिटि' (४।३।८३) णिच्लुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा औ। [ऊर्जः] ऊर्जयन्तीत्येवंशीला: = ऊर्जः । अनेन क्विप्र० । 'णेरनिटि' (४।३।८३) णिच्लुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस् । तत] ग्रावन 'ष्टक स्ततौ' (११२४) ष्ट । 'षः सोऽष्ट्यै ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे'. (न्या०सं०वक्ष०(१)/सूत्र (२९) स्तु । ग्रावाणं स्तौतीत्येवंशीलः = ग्रावस्तुत् । अनेन क्विप्र० । 'हुस्वस्य'० (४|४|११३) तोऽन्तः । 'अप्रयोगीत्' (११।३७) क्विप्लोपः । [ग्रावस्तुतौ ] ग्रावाणं स्तुत इत्येवंशीलौ = ग्रावस्तुतौ । [पक् ] 'डुपचींष् पाके' (८९२) पच् । पचतीत्येवंशीलः = पक् । अनेन क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब'० (१।४।४५) सिलुक् । 'च-जः क-गम्' (२।१४८६) च० → क० । [शक्] 'शक्लँट शक्तौ' (१३००) शक् । शक्नोतीति शक । अनेन क्विपप्र० । 'अप्रयोगीत' (१।३।३७) क्विप्लोपः। [भित्] "भिदंपी विदारणे' (१४७७) भिद् । भिनत्तीत्येवंशीलः = भित् । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) विवप्लोपः । प्रथमा सि । 'दीर्घझ्याब'० (१।४।४५) सिलुक् । 'विरामे वा' (१४३५१) द० → त० । [वित ] 'विदक ज्ञाने' (१०९९) विद् । वेत्तीत्येवंशीलः = वित् । अनेन क्विपप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब'० (१।४।४५) सिलुक् । 'विरामे' (११३५१) द० → त० । [शोकच्छित् ] शोकं छिनत्तीत्येवंशीलः = शोकच्छित् । अनेन क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब'० (१।४।४५) सिलुक् । 'विरामे वा' (१।३।५१) द० → त० । "भुवः संज्ञायामेव"[भूः पृथिवी ] भवतीत्येवंशीला = भूः - पृथिवी । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । [शंभूः शिवः] शं-सुखं भवतीत्येवंशीलः = शंभूः - शिवः । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । [आत्मभूः कामः ] आत्मनि भवतीत्येवंशीलः = आत्मभूः कामः । अनेन विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । Jain Education International onal For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy