________________
१७६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[आयतस्तूः] 'यमूं उपरमे' (३८६) यम्, आयूर्व० । आयमनं = आयतम् । 'क्लीबे क्त:' (५।३।१२३) भावे क्त - प्र० → त । 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्ङिति' (४।२।५५) मलुक् । “टुंगक् स्तुतौ' (११२४) ष्ट । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे'. (न्या०सं०वक्ष०(१)/सूत्र(२९) स्तु । आयतं स्तौतीत्येवंशीलः = आयतस्तूः - ऋत्विग् विशेषः । अनेन क्विपप्र० दीर्घश्च निपातः ।
[कटप्रूः] कट च्युङ् (५९४) - ज्युङ् (५९५) - जुंङ् (५९६) - 'प्रुङ् गतौ' (५९७) । कटं प्रवत इत्येवंशीलः = कटप्रूः । अनेन क्विप्प्र० - दीर्घश्च निपातः । 'अप्रयोगीत्' (१।१।३७) क्विप्लुक् सर्वत्र ।
[परिव्राट ] परि धृज (१३०) - धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) - ध्रज (१३४) - ध्रजु (१३५) - वज (१३६) - 'व्रज गतौ' (१३७) व्रज् । परितो व्रजतीत्येवंशीलः । अनेन क्विप्र० । प्रथमा सि । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । 'यज-सृज-मृज'० (२।१८७) ज० → ष० । 'धुटस्तृतीयः' (२११७६) १० → ड० । 'विरामे वा' ९१।३।५१) ड० → ट० । निपातनात् 'दीर्घत्वम् ।
[परिव्राजौ] परितौ व्रजत इत्येवंशीलौ = परिव्राजौ । अनेन क्विपप्र० - निपातनात् दीर्घत्वम् । दधातेराकारस्य ध्यायतेर्याशब्दस्य चेकारः ।
बहुलाधिकारादशीलादावपि - [धीः] ध्यायति - दधातीति धीः । [सुधीः ] सुष्ठ ध्यायतीति सुधीः । [प्रधीः] प्रध्यायतीति प्रधीः । [आधीः ] आध्यायतीति आधीः । अनेन क्विप्प्र० - धीनिपातः । [विभ्राट ] 'भ्राजि दीप्तौ' (६६१) भ्राज्, विपूर्व० । विभ्राजत इत्येवंशीलः = विभ्राट् । [विभ्राजौ] विभ्राजेत इत्येवंशीलौ = विभ्राजौ । अनेन क्विपप्र० । [भाः] 'भासि दीप्तौ' (८४६) भास् । भासत इत्येवंशीलः = भाः । [भासौ] भासेत इत्येवंशीलौ = भासौ । [भासः ] भासन्त इत्येवंशीला: = भासः । अनेन क्विप्प्र० सर्वे निपात्यन्ते ।
[पूः] + 'पृक् पालन-पूरणयोः' (११३४) पृ । पिपर्तीत्येवंशीलः = पू: । अनेन क्विप्प्र० - निपातनादेव दीर्घत्वम् । 'ओष्ठ्यादुर्' (४।४।११७) उर् ततो दीर्घत्वम् ।
[पुरौ] पिपृत इत्येवंशीलौ = पुरौ । शेषं पूर्ववत् । औ । [पुरः] पिप्रतीत्येवंशीलाः । शेषं पूर्ववत् । प्रथमा जस् ।
+ श० म० न्या० - 'पृक् पालन-पूरणयोः' । पिपीतीति तु अर्थप्रदर्शनाय वाक्यम्, रूपं तु, 'पृश् पालन-पूरणयोः' इत्यस्येति पृणातीति क्विपि' ओष्ठ्यादुर्' (४|४|११७) इत्युरादेशे 'पुर्' इति, ततः सौ 'पदान्ते' (२।१।६४) इति दीर्घ च पूः, द्विवचने पुरौ, बहुवचने च पुरः । आदादिकत्वे तु उरादेशो न स्यात् दीर्घस्य ऋकारस्याभावात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org