SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः॥ १७५ [क्विपः] क्विप् प्रथमा जस् । [दिद्युत् ] 'द्युति दीप्तौ' (९३७) द्युत् । द्योतत इत्येवंशीलः = दिद्युत् । [दिद्युतौ ] द्योतेत इत्येवंशीलौ = दिद्युतौ । [ददृत् ] 'दृश् विदारणे' (१५३५) दृ । दृणातीत्येवंशीलः = ददृत् । [ ददृतौ ] दृणीत इत्येवंशीलौ = ददृतौ । [जगत् ] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । गच्छतीत्येवंशीलम् = जगत् । [जुहूः] 'हुंक् दाना-ऽदनयोः' (११३०) हु । जुहोतीति जुहूः । अनेन क्विप्प्र० । एषु द्वित्वम्, दृणातिजुहोत्योईस्वत्व-दीर्घत्वे च । [वाक् ] 'वचंक् भाषणे' (१०९६) वच् । उच्यते-वक्तीत्येवंशीलः = वाक् । [प्राट ] 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ् । पृच्छतीत्येवंशील: = प्राट् । अनेन क्विप्प्र० । 'अनुनासिके च च्छवः शूट्' (४।१।१०८) छस्य श० । 'निपातनात् दीर्घः आ । प्रथमा सि । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । 'यज-सृज-मृज-राज-भ्राज-भ्रस्जव्रस्च-परिव्राजः शः षः' (२।१।८७) श० → ष० । 'धुटस्तृतीयः' (२।१७६) ष० → ड० । 'विरामे वा' (१।३।५१) ड० → ट० । [प्राशौ ] 'प्रछंत् जीप्सायाम्' (१३४७) प्रछ् । पृच्छत इत्येवंशीलौ = प्राशौ । अनेन क्विप्र० । 'अनुनासिके'० (४।१।१०८) छस्य श० । निपातनात् दीर्घः आ । प्रथमा औ । [शब्दप्राट् ] शब्दं पृच्छतीत्येवंशीलः = शब्दप्राट् । अनेन क्विपप्र० । [तत्त्वप्राट् ] तत्त्वं पृच्छतीत्येवंशीलः = तत्त्वप्राट् । अनेन क्विप्र० । 'अनुनासिके'० (४।१।१०८) छस्य श० । निपातनात् दीर्घः आ । प्रथमा सि । 'दीर्घङ्याब्'० (१।४।४५), सिलुक् । यज-सृज-मृज-राज-भ्राज'० (२११८७) श० → ष० । 'धुटस्तृतीयः' (२।११७६) ष० → ड..। 'विरामे वा' (११३५१) ड० → ट० । [धीः ] 'दुधांग्क् धारणे च' (११३९) धा । 'ध्यै चिन्तायाम्' (३०) ध्यै । 'आत् सन्ध्यक्षरस्य' (४।२।१) ध्या । दधाति-ध्यायति वा इत्येवंशीलः = धीः । अनेन क्विपप्र० - धीनिपातश्च । आयुधविशेषः (?) । [श्रीः ] 'श्रिग् सेवायाम्' (८८३) श्रि । श्रयतीत्येवंशीलः = श्रीः । अनेन क्विप्प्र० - दीर्घश्च निपातः । [शतद्रूः] इं (११) - दुं (१२) - ‘टुं गतौ' (१३) छ । शतं द्रवतीत्येवंशीलः = शतदूः । अनेन क्विप्र० - दीर्घश्च निपातः । [स्त्रः] इं (११) - दुं (१२) - हूँ (१३) - शुं (१४) - 'लुं गतौ' (१५) स्रु । स्त्रवतीत्येवंशीलः = स्रः । अनेन क्विप्र० - दीर्घश्च निपातः । होमभाण्डं उच्यते । [जूः] 'जु गतौ' (१९९०) जु इति सौत्रो धातुः । जवतीत्येवंशीलः = जूः, पिशाचः । अनेन क्विप्र० - दीर्घश्च निपातः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy