SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [स्वप्ना , स्वप्नजौ] 'जिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वप् । स्वपितीत्येवंशीलः - शीलौ = स्वप्नक् - स्वप्नजौ । अनेन नजिप्र० → नज् । प्रथमा सि-औ । 'च-जः क-गम्' (२।१८६) ज -→ ग० । 'विरामे वा' (११३५१) ग० → क ० । डकारो गुणप्रतिषेधार्थः ॥ छ ।। स्थेश-भास-पिस-कसो वरः ॥५।२८१ ॥ [स्थेशभासपिसकसः] स्थाश्च ईशश्च भासश्च पिसश्च कस् च = स्थेशभासपिसकस्, तस्मात् । [वरः] वर प्रथमा सि । [स्थावरः, स्थावरा] 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे'. (न्या०सं०वक्ष०(१)/सूत्र २९) स्था । तिष्ठतीत्येवंशीलः = स्थावरः, स्त्री चेत् - स्थावरा । अनेन वरप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [ईश्वरः, ईश्वरा] 'ईशिक् ऐश्वर्ये' (१११६) ईश् । ईष्टे इत्येवंशीलः = ईश्वरः, स्त्री चेत् - ईश्वरा । अनेन वरप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [ईश्वरी] 'अशश् भोजने' (१५५८) अश् । अश्नातीति ईश्वरी । 'अश्नोतेरीच्चादेः' (उणा० ४४२) वरटप्र० → वर० - अकारस्य ईकारश्च । 'अणजेयेकण्'० (२।४।२०) ङी । [भास्वरः, भास्वरा] भासि दीप्तौ' (८४६) भास् । भासत इत्येवंशीलः = भास्वरः, स्त्री चेत् - भास्वरा । अनेन वरप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [पेस्वरः, पेस्वरा] 'पिसृ गतौ' (५४६) पिस् । पेसतीत्येवंशीलः = पेस्वरः, स्त्री चेत् - पेस्वरा । अनेन वरप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [विकस्वरः, विकस्वरा] 'कस गतौ' (९८७) कस्, विपूर्व० । विकसतीत्येवंशीलः = विकस्वरः, स्त्री चेत् - विकस्वरा । अनेन वरप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [प्रमद्वरः] 'मदैच् हर्षे' (१२३६) मद्, प्रपूर्व० । प्रमाद्यतीत्येवंशीलः = प्रमद्वरः । मतान्तरेऽनेनैव वरप्र० ॥छ। यायावरः ।।५।२।८२ ॥ [यायावरः] यायावरः अखण्डमिदम् । [यायावरः] 'यांक प्रापणे' (१०६२) या । कुटिलं याति । 'गत्यर्थात् कुटिले' (३।४।११) यङ्प्र० → य । 'सन्यङश्च' (४।१।३) द्विः । 'हुस्वः' (४।१।३९) हुस्वः । 'आ-गुणावन्यादेः' (४।१।४८) आ । यायायते इत्येवंशीलः = यायावरः । अनेन वरप्रत्ययान्तो निपात्यते ॥छ।। . दिद्युद्-ददृज्जगज्जुहू-वाक्-प्राट्-धी-श्री-द्रू-तू-ज्वायतस्तू-कटप्रू-परिवाङ्-भ्राजादयः क्विपः ॥५।२।८३ ॥ [दिद्युद्ददृज्जगज्जुहूवाक्प्राधीश्रीद्रूस्त्रज्वायतस्तूकटप्रूपरिव्राड्भ्राजादयः] दिद्युच्च ददृच्च जगच्च जुहूश्च वाक् च प्राट् च धीश्च श्रीश्च द्रुश्च स्खूश्च जूश्च आयतस्तूश्च कटप्रूश्च परिव्राट् च भ्राजादयश्च = दिद्युद्ददृज्जगज्जुहूवाक्प्राटधीश्रीदूस्रज्वायतस्तूकटप्रूपरिव्राड्भ्राजादयः । 卐 लघुवृत्तौ - क्विप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy