SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः ॥ [रः] र प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [स्मेरं मुखम् ] मिङ् ईषद्धसने' (५८७) ष्मि । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।७८) स्मि । स्मयत इत्येवंशीलं = स्मेरं मुखम् । अनेन रप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । [अजस्रं श्रवणम्] अजसिति 'जसूच् मोक्षणे' (१२२३) जस्, नञ्पूर्व० । न जस्यतीत्येवंशीलमजस्रं श्रवणम् । अनेन रप्र० । 'नजत्' (३।२।१२५) न० → अ० । [अजस्रा प्रवृत्तिः] अजस्र 'आत्' (२।४।१८) आप्प्र० → आ, प्रवृत्तिः । अजस्रशब्दोऽयं स्वभावात् सातत्यविशिष्टां क्रियामाह, तेन धात्वर्थ एव कर्तरि रः प्रत्ययोऽन्यथा क्रियाभिधानानुपपत्तेः, अजस्त्रमित्यव्ययमपि नित्यार्थं क्रियाविशेषणमस्ति । [हिंस्रो व्याधः] 'हिसु हिंसायाम्' (१४९४) हिस् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । हिनस्तीत्येवंशीलः = हिंस्रः व्याधः । अनेन रप्र० । [दीप्रो दीपः] 'दीपैचि दीप्तौ' (१२६६) दीप् । दीप्यत इत्येवंशीलः = दीप्रो दीपः । अनेन रप्र० । [कम्प्रः] 'कपुङ् चलने' (७५७) कप् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) कम्प् । कम्पत इत्येवंशीलः = कम्प्रः । अनेन रप्र० । [कम्रा युवतिः] 'कमूङ् कान्तौ' (७८९) कम् । 'कमेणिङ्' (३।४।२) णिप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । कामयते इत्येवंशीलः । अनेन रप्र० । 'णेरनिटि' (४।३।८३) णिङ्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । बहुलाधिकारात् कर्मण्यपि[कम्रः] कम्यते = कम्रः । अनेन रप्र० । [कमिता] कम्यते = कमिता । 'तृन् शील-धर्म-साधुषु' (५।२।२७) तृन्प्र० → तृ० । [नम्रः] ‘णमं प्रह्वत्वे' (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम् । नमतीत्येवंशीलः = नम्रः । अनेन रप्र० ॥छ।। तृषि-धृषि-स्वपो नजिङ् ॥५।२८० ॥ [ तृषिधृषिस्वपः ] तृषिश्च धृषिश्च स्वप् च = तृषिधृषिस्वप्, तस्मात् । [नजिङ्] नजिङ् प्रथमा सि । [तृष्णक्, तृष्णजौ ] 'जितृषच् पिपासायाम्' (१२१२) तृष् । तृष्यतीत्येवंशीलः - शीलौ । अनेन नजिप्र० → नज् । 'र-वर्णान्नो ण'० (२।३।६३) णत्वम् । प्रथमा सि-औ । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'विरामे वा' (१।३।५१) ग० → क० । [धृष्णक्, धृष्णजौ] 'जिधृषाट प्रागल्भ्ये' (१३१२) धृष् । धृष्णोतीत्येवंशीलः - शीलौ । अनेन नजिप्र० → नज् । 'र-वर्णान्नो ण'० (२।३।६३) णत्वम् । प्रथमा सि-औ । 'च-जः क-गम्' (२।१८६) ज० → ग० । 'विरामे वा' (१।३५१) ग० → क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy