SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः॥ १६९ [मन्तूयिता] 'मन्तु रोष-वैमनस्ययोः' (१९९६) मन्तु । 'धातोः कण्ड्वादेर्यक्' (३।४।८) यक्प्र० → य । मन्तूयतीति मन्तूयिता । 'तृन् शील-धर्म-साधुषु' (५।२।२७) तृन्प्र० → तृ० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'अतः' (४।३।८२) अलुक् । - विनाशिग्रहणं तु अन्यस्य ण्यन्तस्य निवृत्त्यर्थम्, कथं तर्हि गणकः ? अत्रेदं व्याख्यानं कर्त्तव्यम्, यत् विनाशीति णिगन्तस्योपादानं करोति तत् ज्ञापयति - अन्यस्यापि णिगन्तस्य वर्जनं तेन णिजन्तस्य भवत्येव । क्लिशेरविशेषेण ग्रहणात् देवादिकादिदित्त्वेऽपि 'इ-ङितो व्यञ्जनाद्यन्तात्' (५।२।४४) इत्यनेन अनो न भवति ॥छ।। उपसर्गाद् देवृ-देवि-क्रुशः ॥ ५।२।६९ ॥ [उपसर्गात् ] उपसर्ग पञ्चमी ङसि । [ देवृदेविक्रुशः] देवृश्च देविश्च क्रुश् च = देवृदेविक्रुश्, तस्मात् । [आदेवकः ] तेवृङ् (८१६) - 'देवृङ् देवने' (८१७) देव, आयूर्व० । आदेवत इत्येवंशीलः = आदेवकः । अनेन णकप्र० → अक । [परिदेवकः] परिदेवत इत्येवंशीलः = परिदेवकः । अनेन णकप्र० → अक । देवीति दीव्यतेर्देवतेर्वा ण्यन्तस्य ग्रहणम् । [आदेवकः] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । तेवृङ् (८१६) 'देवृङ् देवने' (८१७) देव, आयूर्व० । आदीव्यन्तं - आदेवमानं वा प्रयुङ्क्ते । 'प्रयोक्तृ' ० (३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । आदेवयतीत्येवंशीलः = आदेवकः । [परिदेवकः] परिदीव्यन्तं - परिदेवमानं वा प्रयुङ्क्ते । 'प्रयोक्तृ' (३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । परिदेवयतीत्येवंशीलः = परिदेवकः । अनेन णकप्र० → अक । 'णेरनिटि' (४।३।८३) णिग्लुक । [आक्रोशकः] 'क्रुशं आह्वान-रोदनयोः' (९८६) क्रुश्, आयूर्व० । आक्रोशतीत्येवंशीलः = आक्रोशकः । अनेन णकप्र० → अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [परिक्रोशकः] परिक्रोशतीत्येवंशीलः = परिक्रोशकः । अनेन णकप्र० → अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ। [देवनः] देवमानं प्रयुङ्क्ते । 'प्रयोक्तृ' ० (३।४।२०) णिग्प्र० । देवयतीत्येवंशीलः = देवनः । 'इङितो व्यञ्जनाद्यन्तात्' (५।२।४४) अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक् । [देवयिता] दीव्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । देवयतीत्येवंशीलः = देवयिता । 'तृन् शील-धर्म-साधुषु' (५।२।३७) तृन्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । प्रथमा सि । 'ऋदुशनस्'० (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ॥छ।। ___ वृङ्- भिक्षि - लुण्टि - जल्पि - कुट्टाट्टाकः ॥५।२७० ॥ [वृभिक्षिलुण्टिजल्पिकुट्टात् ] वृङ् च भिक्षिश्च लुण्टिश्च जल्पिश्च कुट्टश्च = वृशिक्षिलुण्टिजल्पिकुट्टम्, तस्मात् । [टाकः] टाक प्रथमा सि । सो रुः' (२।१।७२) स० → र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy