SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [वराकः, वराकी ] 'वृश् संभक्तौ' (१५६७) वृ । वृणीते इत्येवंशीलः = वराकः । अनेन टाकप्र० → आक । 'अणजेयेकण-न-स्नञ्-टिताम्' (२।४।२०) ङी । [भिक्षाकः, भिक्षाकी] 'भिक्षि याच्चायाम्' (८८९) भिक्ष् । भिक्षते इत्येवंशीलः = भिक्षाकः । अनेन टाकप्र० → आक० । स्त्री चेत् - भिक्षाकी । 'अणजेयेकण्'० (२।४।२०) ङी । [लुण्टाकः, लुण्टाकी ] रुटु (२०६) - 'लुटु स्तेये' (२०७) लुट् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) लुण्ट । लुण्टतीत्येवंशीलः = लुण्टाकः । 'अनेन टाकप्र० → आक । स्त्री चेत्-लुण्टाकी । 'अणजेयेकण्'० (२।४।२०) ङी [जल्पाकः, जल्पाकी] रप (३३५) - लप (३३६) - 'जल्प व्यक्ते वचने' (३३७) जल्प । जल्पतीत्येवंशील: = जल्पाकः । अनेन टाक्प्र० → आक० । स्त्री चेत् - जल्पाकी । 'अणबेयेकण' (२।४।२०) ङी । [कुट्टाकः, कुट्टाकी] 'कुट्टण कुत्सने च' (१५९८) कुट्ट । 'चुरादि०' (३।४।१७) णिचप्र० । कुट्टयतीत्येवंशीलः कुट्टाकः । अनेन टाकप्र० → आक० । स्त्री चेत् - कुट्टाकी । 'अणजेयेकण्' (२।४।२०) ङी ॥छ।। प्रात् सू-जोरिन् ॥५।२७१ ॥ [प्रात्] प्र पञ्चमी ङसि । [सूजोः ] सूश्च जुश्च = सूजु, तस्मात् । [इन् ] इन् प्रथमा सि । "सू" इति निरनुबन्धग्रहणात् सुवतेर्ग्रहणम्, न सूति- सूयत्योः । 'षूडौक् प्राणिगर्भविमोचने' (११०७) - 'घूडौन् प्राणिप्रसवे' (१२४२) इमौ अपास्तौ । [प्रसवी] 'षूत् प्रेरणे' (१३३२) षू । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सू, प्रपूर्व० । प्रसुवतीत्येवंशीलः = प्रसवी । अनेन इन्प्र० । 'नामिनो'० (४।३।१) गु० ओ 1 'ओदौतोऽवाव्' (१।२।२४) अव् । प्रथमा सि । 'इन्-हन्'० (१।४।८७) दीर्घः । दीर्घयाब्'० (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [प्रजवी ] 'जु गतौ' (१९९०) जु इति सौत्रो धातुः, प्रपूर्व० । प्रजवतीत्येवंशीलः = प्रजवी । अनेन इन्प्र० । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । प्रथमा सि । 'इन्,-हन्'० (१।४।८७) दीर्घः । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ॥छ।। जीण-दृ-क्षि-विश्रि-परिभू-वमा-ऽभ्यमाऽव्यथः ॥५।२७२ ॥ [जीण्दृक्षिविश्रिपरिभूवमाऽभ्यमाव्यथः] जिश्च इण् च दृश्च क्षिश्च विश्रिश्च परिभूश्च वमश्च अभ्यमश्च अव्यथ् च = जीणदक्षिविश्रिपरिभूवमाऽभ्यमाऽव्यथ्, तस्मात् । [जयी] 'जिं अभिभवे' (८) जि । जयतीत्येवंशीलः = जयी । अनेन इन्प्र० । 'नामिनो'० (४।३।१) गु० ए। 'एदैतोऽयाय्' (१।२।३३) अय् । [अत्ययी ] 'इंण्क् गतौ' (१०७५) इ, अतिपूर्व० । अत्येतीत्येवंशीलः = अत्ययी । अनेन इन्प्र० । 'नामिनो' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [उदयी ] 'इंण्क् गतौ' (१०७५) इ, उत्पूर्व० । उदेतीत्येवंशीलः = उदयी । अनेन इन्प्र० । 'नामिनो' ० (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy