SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६८ [ वृकौ ] वृक प्रथमा औ । [इव ] इव प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् ॥छ । निन्द - हिंस- क्लिश- खाद - विनाशि - व्याभाषा - ऽसूया नेकस्वरात् ॥ ५।२६८ ॥ [ निन्दहिंसक्लिशखादविनाशिव्याभाषाऽसूयाऽनेकस्वरात् ] निन्दश्च हिंसश्च क्लिशश्च खादश्च विनाश (शि)श्च व्याभाषश्च असूयश्च अनेकस्वरश्च = निन्दहिंसक्लिशखादविनाशिव्याभाषाऽसूयाऽनेकस्वरम् तस्मात् । [ निन्दकः ] 'णिदु कुत्सायाम् ' (३११) णिद् । 'पाठे धात्वादेर्णो नः' (२।३।९७) निद् । 'उदितः स्वरान्नोऽन्तः ' (४।४।९८) निन्द् । निन्दतीत्येवंशीलः = निन्दकः । अनेन णकप्र० → अक । [हिंसकः ] 'हिसु हिंसायाम् ' (१४९४ ) हिस् । 'उदितः स्वरान्नोऽन्तः' (४|४|१८) हिन्स् । हिनस्तीत्येवंशीलः = हिंसकः । अनेन णकप्र० अक । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ क्लेशक: ] 'क्लिशौश् विबाधने' (१५५७) क्लिश् । 'क्लिशिच् उपतापे' (१२७६) क्लिश् । क्लिश्नाति - क्लिश्यते वा इत्येवंशील: = क्लेशकः । अनेन णकप्र० अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [ खादक: ] खादृ भक्षणे (२९४) खाद् । खादतीत्येवंशीलः = खादकः । अनेन णकप्र० अक । ( [विनाशक: ] वि 'नशौच् अदर्शने' (१२०२ ) नश् । विनश्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृ ' ० 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । विनाशयतीत्येवंशीलः = विनाशकः । अनेन णकप्र० (४।३।८३) णिग्लुक् । ३ | ४ | २०) णिग्प्र० । अक । 'णेरनिटि ' [ व्याभाषकः ] 'भाषि व्यक्तायां वाचि' (८३२) भाष्, वि- आङ्पूर्व० । व्याभाषत इत्येवंशील: = व्याभाषकः । अनेन णकप्र० अक । [ असूयकः ] 'असूग् इति सौत्रो धातुः असूयतीत्येवंशीलः = असूयकः । अनेन णकप्र० [ दरिद्रायक: ] 'दरिद्राक् दुर्गतौ' अक । 'अशित्यस्सन्- णकज् - णकाऽनटि' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१०९२) दरिद्रा । दरिद्रातीत्येवंशील: दरिद्रायकः । अनेन णकप्र० (४।३।७७) इत्यस्मिन् सूत्रे सनादिवर्जनात् आलोपनिषेधः । 'आत ऐः कृञ्ञ' (१।२।२३) आय् । [ चकासकः ] 'चकासृक् दीप्तौ' (१०९४) चकास् । चकास्तीत्येवंशीलः = चकासकः । अनेन णकप्र० अक । असू । 'धातोः कण्ड्वादेर्यक्' (३।४।८) यक्प्र०य । → अक । [ गणक: ] 'गणण् संख्याने ' (१८७४) गण । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । 'अतः ' ( ४१३८२) अलुक् । गणयतीत्येवंशीलः = गणकः । अनेन णकप्र० अक । 'णेरनिटि ( ४ | ३ |८३) णिच्लोपः । चुलुम्पकः । अनेन Jain Education International [ चुलुम्पकः ] 'चुलुम्प विनाशे' (२०५०) चुलुम्प् इति सौत्रो धातुः । चुलुम्पतीत्येवंशीलः णकप्र० → अक । = = अनेकस्वरत्वादेव सिद्धेऽसूयग्रहणं कण्ड्वादिनिवृत्त्यर्थम्, तेन [ कण्डूयिता ] 'कण्डूग् गात्रविघर्षणे' (१९९१) कण्डू । 'धातोः कण्ड्वादेर्यक्' ( ३।४।८) यक्प्र०य । कण्डूयतीत्येवंशीलः कण्डूयिता । 'तृन् शील - धर्म - साधुषु' (५।२।२७) तृन्प्र० तृ० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः' (४।३।८२) अलुक् । For Private Personal Use Only = www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy