________________
पञ्चमाध्यायस्य द्वितीयः पादः ॥
[परिदाही] 'दहं भस्मीकरणे' (५५२) दह, परिपूर्व० । परिदहतीत्येवंशीलः = परिदाही । अने घिनणप्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ॥छ।।
क्षिप-रटः ॥ ५।२।६६ ॥ [क्षिपरटः] क्षिपश्च रट् च = क्षिपरट, तस्मात् ।
[परिक्षेपी] 'क्षिपंच प्रेरणे' (११५८) क्षिप् । 'क्षिपीत् प्रेरणे' (१३१७) क्षिप्, परिपूर्व० । परिक्षिप्यति - परिक्षिपति, वा इत्येवंशीलः = परिक्षेपी । अनेन घिनणप्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[परिक्षेप्यम्भसाम्] परिक्षिप्यति-परिक्षिपति वा इत्येवंशीलः = परिक्षेपी । अनेन घिनणप्र० →इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अम्भस् षष्ठी आम् ।
[परिराटी] 'रट परिभाषणे' (२११) रट्, परिपूर्व० । परिरटतीत्येवंशीलः = परिराटी । अनेन घिनणप्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ॥छ।।
वादेश्च णकः ॥ ५२६७ ॥ [वादेः] वादि पञ्चमी ङसि । [च] च प्रथमा सि । [णकः ] णक प्रथमा सि ।
[परिवादकः] 'वद व्यक्तायां वाचि' (९९८) वद्, परिपूर्व० । परिवदन्तं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिग्प्र० । परिवादयतीत्येवंशीलः = परिवादकः । अनेन णकप्र० → अक । 'णेरनिटि' (४।३।८३) णिग्लुक् ।
[परिक्षेपकः] परिक्षिप्यति - परिक्षिपति वा इत्येवंशीलः = परिक्षेपकः । अनेन णकप्र० → अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए।
[परिराटकः] परिरटतीत्येवंशीलः = परिराटकः । अनेन णकप्र० → अक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
असरुपत्वात् 'णक-तृचौ' (५।१४४८) इति सिद्धे पुनर्विधानं शीलादिप्रत्ययेष्वशीलादिकृत्प्रत्ययोऽसरूपविधिना न भवतीति ज्ञापनार्थम्, तेन -
[अलङ्कारकः] अलङ्करोतीति अलङ्कारकः । 'णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् ।
[परिक्षिपः] परिक्षिपतीति परिक्षिपः । 'नाम्युपा'० (५।१५४) कप्र० → अ । कित्त्वात् गुणो न भवति । [परिरटः] परिरटतीति परिरटः । बाहुलकात् क्वचिद् भवत्यपि - "काम-क्रोधौ मनुष्याणां, खादितारौ वृकाविव"
[खादितारौ] 'खाद भक्षणे (२९४) खाद् । खादतीत्येवंशीलौ = खादितारौ । 'निन्द-हिंस-क्लिश-खाद-विनाशिव्याभाषा-ऽसूया-ऽनेकस्वरात्' (५।२।६८) इत्यादिना णकविषये तृचप्र० → तृ० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । औ । 'तृ-स्वसृ-नप्त-नेष्ट'० (१।४।३८) आर् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org