SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः॥ १५९ यजि-जपि-दंशि-वदादूकः ॥ ५।२।४७ ॥ [यजिजपिदंशिवदात् ] यजिश्च जपिश्च दंशिश्च वदश्च = यजिजपिदंशिवदम्, तस्मात् । [ऊकः] ऊक प्रथमा सि । [यायजूकः] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । भृशं पुनः पुनर्वा यजति । 'व्यञ्जनादेरेकस्वराद्'० (३।४।९) यप्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । यायज्यत इत्येवंशीलः = यायजूकः । अनेन ऊकप्र० । 'अत:' (४।३।८२) अलुक् । 'योऽशिति' (४।३।८०) यलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [जंजपूकः] 'जप मानसे च' (३३८) जप् । गहितं जपति । 'ग-लुप-सद-चर-जप-जभ-दश-दहो गयें' (३।४।१२) यङ्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'जप-जभ-दह-दश-भञ्ज-पशः' (४।१५२) मोऽन्तः । 'तौ मुमो'० (१।३।१४) अनुस्वारः । जंजप्यत इत्येवंशीलः = जंजपूकः । अनेन ऊकप्र० । 'अतः' (४।३।८२) अलुक् । 'योऽशिति' (४।३।८०) यलुक् । प्रथमा सि । 'सो रुः (२।१।७२) स० → र० । [दंदशकः] 'दंशं दशने' (४९६) दंश् । गहितं दशति । 'ग-लुप-सद-चर-जप-जभ-दश'० (३।४।१२) यप्र० । 'सन्-यङश्च' (४।१३) द्विः । 'जप-जभ-दह-दश'० (४।१५२) मोऽन्तः । 'तौ मुमो'० (१।३।१४) अनुस्वारः । दंदश्यत इत्येवंशीलः = दंदशूकः । अनेन ऊकप्र० । 'अतः' (४।३।८२) अलुक् । 'योऽशिति' (४।३।८०) यलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० -→ र० । [वावदूकः] 'वद व्यक्तायां वाचि' (९९८) वद् । भृशं पुनः पुनर्वा वदति । 'व्यञ्जनादेरेकस्वराद्'० (३।४।९) यप्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वावद्यत इत्येवंशीलः = वावदूकः । अनेन ऊकप्र० । 'अतः' (४।३।८२) अलुक् । 'योऽशिति' (४।३८०) यलुक् । प्रथमा सि । 'सो रुः' (२२११७२) स० → र० । [दंदहूकः] 'दहं भस्मीकरणे' (५५२) दह् । गर्हितं दहति । गृ-लुप-सद-चर'० (३।४।१२) यप्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'जप-जभ-दह'० (४।१।५२) मोऽन्तः । 'तौ मुमो'० (१।३।१४) अनुस्वारः । दंदह्यत इत्येवंशीलः = दंदहूकः । मतान्तरेऽनेनैव ऊकप्र० । 'अतः' (४।३।८२) अलुक् । 'योऽशिति' (४।३।८०) यलुक् । [पापयूकः] अयि (७९०) वयि (७९१) - ‘पयि गतौ' (७९२) पय् । कुटिलं पयते । 'गत्यर्थात् कुटिले' (३।४।११) यप्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । पापप्यत इत्येवंशीलः = पापयूकः । मतान्तरेऽनेनैव ऊकप्र० । 'अतः' (४।३।८२) अलुक् । 'योऽशिति' (४।३।८०) यलुक् । [निजागदूकः] 'गद व्यक्तायां वाचि' (२९७) गद्, निपूर्व० । भृशं पुनः पुनर्वा निगदति । 'व्यञ्जनादेरेकस्वराद्'० (३।४।९) यप्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'ग-होर्जः' (४।१।४०) ग० → ज० । निजागद्यत इत्येवंशीलः = निजागदूकः । मतान्तरे अनेनैव ऊकप्र० । 'अतः' (४।३।८२) अलुक् । 'योऽशिति' (४।३।८०) यलुक् । [नानशूकः] 'नशौच अदर्शने' (१२०२) नश् । भृशं पुनः पुनर्वा नश्यति । 'व्यञ्जनादेरेकस्वराद्'० (३।४।९) यप्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । नानश्यत इत्येवंशीलः = नानशूकः । मतान्तरेऽनेनैव ऊकप्र० । 'अतः' (४।३।८२) अलुक् । 'योऽशिति' (४।३।८०) यलुक् । [पंपशूकः] पश इति सौत्रो धातुः । भृशं पुनः पुनर्वा पशति । 'व्यञ्जनादेरेकस्वराद्'० (३।४।९) यम० । 'सन्यङश्च' (४।१।३) द्विः । 'जप-जभ-दह-दश-भञ्ज-पशः' (४।१।५२) मोऽन्तः । 'तौ मुमौ'० (१।३१४) अनुस्वारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy