________________
पञ्चमाध्यायस्य द्वितीयः पादः ॥
१५१
अत एव वचनात् डिरपि अनुवादात् कथनात् विधिर्ज्ञायते ।
[सासहिः] 'षहि मर्षणे' (९९०) षह । 'ष: सोऽष्ट्यै - ष्ठिव - ष्वष्कः' (२।३।९८) सह । भृशं पुनः पुनर्वा सहते । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः
। सासह्यते इत्येवंशीलः = सासहिः । अनेन ङि निपातनात् 'अतः' (४।३।८२) अलोपः । 'योऽशिति' (४।३।८०) यलुक्।
[वावहिः] 'वहीं प्रापणे' (९९६) वह् । भृशं पुनः पुनर्वा वहते । 'व्यञ्जनादेरेकस्वराद्'० (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वावह्यत इत्येवंशीलः = वावहिः । अनेन ङि निपातनात् 'अतः' (४।३।८२) अलोपः । 'योऽशिति' (४।३।८०) यलुक् ।
[चाचलिः ] 'चल कम्पने' (९७२) चल् । कुटिलं चलति । 'गत्यर्थात् कुटिले' (३।४।११) यप्र० । 'सन्यङश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । चाचल्यत इत्येवंशीलः = चाचलिः । अनेन ङि निपातनात् 'अतः' (४।३२८२) अलोपः । 'योऽशिति' (४।३।८०) यलुक् ।
[पापतिः] 'पत्लु गतौ' (९६२) पत् । कुटिलं पतति । 'गत्यर्थात् कुटिले' (३।४।११) यङ्प्र० । 'सन्-यङश्च' (४।३।३) द्विः । 'वञ्च-स्रंस-ध्वंस-भ्रंश-कस-पत-पद-स्कन्दोऽन्तो नी:' (४।१।५०) "नी" आगमः । पनीपत्यते इत्येवंशीलः = पापतिः । अनेन ङि निपातनात् न्यागमाभावः । ङाविति ङकारः 'तन्नुदन्ता-ऽव्यय-क्वस्वाना'० (२।२।९०) इत्यत्र विशेषणार्थः ॥छ।।
सस्त्रि-चक्रि-दधि-जज्ञि-नेमि ॥ ५॥२॥३९ ॥ [सस्त्रिचक्रिदधिजज्ञिनेमि] सस्त्रिश्च चक्रिश्च दधिश्च जज्ञिश्च नेमिश्च = सस्त्रिचक्रिदधिजज्ञिनेमि ।
[सस्त्रिः] 'सं गतौ' (२५) सृ । सरतीत्येवंशीलः = सस्रिः । अनेन ङि → इ - द्वित्वं निपात्यते । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० ।
[चक्रिः] 'डुकंग करणे' (८८८) कृ । करोतीत्येवंशीलः = चक्रिः । अनेन ङि - द्वित्वं च निपात्यते । 'ऋतोऽत्' (४।११३८) ऋ० → अ० । कस्य चत्वं च ।
[दधिः] 'डुधांग्क् धारणे च' (११३९) धा । दधातीत्येवंशीलः = दधिः । अनेन ङि - यथासंभवं द्विवचनम् । [जज्ञिः] जायते - जानाति वा इत्येवंशीलः = जज्ञिः । अनेन ङि - यथासंभवं द्विर्वचनम् ।
[नेमिः] 'णमं प्रह्वत्वे' (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम् । नमतीत्येवंशीलः = नेमिः । अनेन ङि - द्विर्वचनाभावः - एत्वं च निपातनात् ॥छ।
श-कम-गम-हन-वृष-भू-स्थ उकण् ॥ ५।२।४० ॥ [शकमगमहनवृषभूस्थः] शृश्च कमश्च गमश्च हनश्च वृषश्च भूश्च स्थाश्च = तत्, तस्मात् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलुक् ।
[ उकण्] उकण् प्रथमा सि ।
[शारुकः] क (१५२९) - मृ (१५३०) - 'शृश हिंसायाम्' (१५३१) शू । शृणातीत्येवंशीलः = शारुकः । अनेन उकणप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org