SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५० [ श्रद्धालुः ] श्रुत्पूर्व० 'डुधांग्क् धारणे च' (१९३९) धा । श्रद्धत्ते इत्येवंशीलः श्रद्धालुः । अनेन आलुप्र० । [ निद्रालुः ] नि 'द्रांक् कुत्सितगतौ' (१०६६) द्रा । ' स्वप्ने' (३४) द्वै । 'आत् सन्ध्य० ' ( ४|२१) द्रा । निद्राति निद्रायति वा इत्येवंशीलः निद्रालुः । अनेन आलुप्र० । = [ तन्द्रालुः ] तत् द्राति - द्रायति वा इत्येवंशील: = तन्द्रालुः । अनेन आलुप्र० । तदो षष्ठी ङस् - दस्य कारो निपात्यते च । तन्द्रेति सौत्रो वा धातुः - तन्द्र (न्द्रा) । तन्द्र (न्द्रा) तीत्येवंशीलः = तन्द्रालुः । अनेन आलुप्र० । [ दयालुः] 'देंङ् पालने' (६०४) दे । दयत इत्येवंशीलः = दयालुः । अनेन आलुप्र० । 'एदैतोऽयाय्' (१।२।२३) अय् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ पतयालुः ] 'पतण् गतौ' (१८७८) पत । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । 'अतः ' (४।३।८२) अलोपः । पतयतीत्येवंशीलः = पतयालुः । अनेन आलुप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । पति- गृहीति वा सौत्रो धातुः । [ गृहयालुः ] 'गृहणि ग्रहणे ' (१९३९) गृह । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । 'अतः ' ( ४।३।८२) अलोपः । गृहयते इत्येवंशीलः गृहयालुः । अनेन आलुप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' = (१।२।२३) अय् । = [ स्पृहयालुः ] 'स्पृहण् ईप्सायाम्' (१९२८) स्पृह । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । 'अत:' ( ४३८२) अलोपः । स्पृहयतीत्येवंशीलः = स्पृहयालुः । अनेन आलुप्र० । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३ |१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । [ मृगयालुः ] 'मृगणि अन्वेषणे' (१९३०) मृग । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । 'अत:' ( ४३।८२) अलोपः । मृगयति (ते) इत्येवंशीलः = मृगयालुः । मतान्तरेऽनेनैव आलुप्र० । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ लज्जालुः ] ओलजै‍ ( १४६९) 'ओलस्जैति व्रीडे' (१४७०) लज् । लज्जति (ते) इत्येवंशीलः = लज्जालुः । ‘लस्जीष्यि-शलेरालुः' (उणा० ८२२) आलुप्र० । 'धुटस्तृतीयः' (२।१।७६) स० द० । 'तवर्गस्य श्चवर्ग ष्टवर्गाभ्यां योगे च-टवर्गी' (१।३।६०) द० ज० । [ईर्ष्यालुः] ‘ईर्ष्या ईर्ष्यार्थाः' (४०२) ईर्ष्या । ईर्ष्यतीत्येवंशीलः = ईर्ष्यालुः । 'लस्जीर्ष्णि-शलेरालुः' (उणा० ८२२) आलुप्र० । [शलालुः ] पल (९८२) - फल (९८३) शलेरालुः' (उणा० ८२२) आलुप्र० । [ कृपालुः ] कृपा अस्याऽस्ति = कृपालुः । 'कृपा - हृदयादालुः' (७|२|४२) आलुप्र० । हृदयादालुः' (७|२|४२) आलुप्र० ||छ || - Jain Education International [ हृदयालुः] हृदयमस्याऽस्ति = हृदयालुः । 'कृपा डौ सासहि - वावहि 'शल गतौ' (९८४) शल् । शलतीत्येवंशीलः = शलालुः । 'लस्जीष्यि - चाचलि - पापति ॥ ५।२।३८ ॥ [ ङौ ] ङि सप्तमी ङि । [ सासहिवावहिचाचलिपापति ] सासहिश्च वावहिश्च चाचलिश्च पापतिश्च = सासहिवावहिचाचलिपापति । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy