SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [प्रशारुकः शरः] प्रशणातीत्येवंशीलः = प्रशारुकः । अनेन उकणप्र० → उक । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । [कामुकः] 'कमूङ कान्तौ' (७८९) कम् । 'कमेणिङ्' (३।४।२) णिप्र० → इ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । कामयते इत्येवंशीलः = कामुकः । अनेन उकणप्र० → उक । 'णेरनिटि' (४।३।८३) णिङ्लुक् । [कामुकी रिरंसुः] 'कमूङ् कान्तौ' (७८९) कम् । 'कमेणिङ्' (३।४।२) णिप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । कामयते इत्येवंशीलः = कामुकः । अनेन उकणप्र० → उक । 'णेरनिटि' (४।३।८३) णिङ्लुक् । 'भाज-गोण-नाग-स्थल-कुण्ड०' (२।४।३०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'रर्मि क्रीडायाम्' (७८९) रम् । रन्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'सन्यस्य' (४।१।५९) इ। रिरंसणं = रिरंसुः । 'सन्-भिक्षा-ऽऽशंसेरुः' (५।२।३३) उप्र० । 'अतः' (४।३।८२) अलुक् । [कामुका अन्यस्य स्त्रियो भवन्ति] कामि मण्ड्यते । कामुका येच्छां विना कामयते = कामुकाः । अनेन उकण्प्र० → उक । 'णेरनिटि' (४।३।८३) णिङ्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा जस् । अन्यस्य स्त्रियो भवन्ति, अन्यस्येत्यत्र 'अकमेरुकस्य' (२।२।९३) इत्यत्र कमिवर्जनात् न कर्मषष्ठी निषेधः । . [गामुकः] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लुं गतौ' (३९६) गम् । गच्छतीत्येवंशीलः = गामुकः । अनेन उकण्प्र० → उक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [आगामुकः स्वगृहम्] आगच्छतीत्येवंशीलः = आगामुकः । अनेन उकणप्र० → उक । 'ज्जिति' (४।३।५०) उपान्त्यवृद्धिः आ । स्वगृहमित्यत्र 'अकमेरुकस्य' (२।२।९३) इत्यनेन षष्ठीनिषेधः । [घातुकः ] 'हनंक हिंसा-गत्योः' (११००) हन् । हन्तीत्येवंशीलः = घातुकः । अनेन उकण्प्र० → उक । “णिति घात्' (४।३।१००) "घात्" आदेशः । [आघातुको व्याधः] आहन्तीत्येवंशीलः = आघातुकः । अनेन उकण्प्र० → उक । “णिति घात्' (४।३।१००) "घात्" आदेशः, व्याधिः । [वर्षुकः ] जिषू (५२२) - विषू (५२३) मिषू (५२४) निषू (५२५) - पृषू (५२६) - 'वृषू सेचने' (५२७) वृष् । वर्षतीत्येवंशीलः = वर्षुकः । अनेन उकण्प्र० → उक । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । __ [प्रवर्षुकः पर्जन्यः ] प्रवर्षतीत्येवंशीलः = प्रवर्षुकः । अनेन उकण्प्र० → उक् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर, पर्जन्यः । __[भावुकः] 'भू सत्तायाम्' (१) भू । भवतीत्येवंशील: = भावुकः । अनेन उकण्प्र० → उक । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । [प्रभावुकः क्षत्रियः] प्रभवतीत्येवंशीलः = प्रभावुकः । अनेन उकण्प्र० → उक । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव्, क्षत्रियः । [स्थायुकः प्रमत्तः] 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे'. (न्या० सं० वक्ष०(१)/सूत्र (२९) स्था । तिष्ठतीत्येवंशीलः = स्थायुकः । अनेन उकणप्र० →उक । 'आत ऐ: कौ ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय, प्रमत्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy