SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां । पूङ् - यजः शानः ॥ ५।२।२३ ॥ [पूयजः] पूङ् च यज् च = पूयज्, तस्मात् । [शानः] शान प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते'० (१।३।५३) विसर्गः । [मलयं पवमानः] 'पू पवने' (६००) पू । पवते = पवमानः । अनेन शानप्र० → आन० । 'कर्तर्यनभ्यः शव्' (३।४/७१) शव् । 'अतो म आने' (४।४।११४) मोऽन्तः । 'नामिनो गुणोऽक्ङि ति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । ॥ तन्नुदन्त'० (२।२।९०) इत्यादिना आनद्वारा कर्मषष्ठीनिषेधे मलयस्य संबन्धी पवमानः = मलयपवमान इति संबंधषष्ठीसमासः । [यजमानः] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । यजति-यजते वा = यजमानः । अनेन शानप्र० → आन० । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतो म आने' (४।४।११४) मोऽन्तः । आनशा योगे न षष्ठीसमासो, न य यजेरफलवति कर्तरि सोऽस्तीति वचनम्, एवमुत्तरत्रापि ॥छ।। वयः-शक्ति-शीले ॥ ५।२।२४ ॥ [वयःशक्तिशीले ] वयश्च शक्तिश्च शीलं च = वयःशक्तिशीलम्, तस्मिन् । वयः प्राणिनां कालकृता बाल्याद्यवस्था । [कतीह शिखण्डं वहमानाः] कति प्रथमा जस् । 'डति-ष्णः संख्याया लुप्' (१।४।५४) जस्लुप् । इह प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । शिखण्डम् = चूडाम् । 'वहीं प्रापणे' (९९६) वह् । वहतीत्येवंवयसः = वहमानाः । अनेन शानप्र० → आन० । 'कर्तर्यनद्भ्यः शव्' (३।४/७१) शव् । 'अतो म आने' (४|४|११४) मोऽन्तः । [स्त्रियं गच्छमानाः] स्त्री द्वितीया अम् । अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्बँ गतौ' (३९६) गम् । गच्छतीत्येवंवयसः = गच्छमानाः । अनेन शानप्र० → आन० । 'कर्त्तर्यन'० (३।४।७१) शव् । 'अतो म आने' (४|४|११४) मोऽन्तः । 'गमिषद्यमश्छ:' (४।२।१०६) म० → छ । 'स्वरेभ्यः' (१।३।३०) छस्य द्विः । 'अघोषे प्रथमोऽशिटः' (१।३।५०) छस्य च० । प्रथमा जस् । शक्तिः = सामर्थ्यम् । [कतीह हस्तिनं निघ्नानाः] कति प्रथमा जस् । 'डति-ष्णः संख्याया लुप्' (१।४।५४) जस्लुप् । इह प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । हस्तिन् द्वितीया अम् । नि 'हनंक हिंसा-गत्योः' (११००) हन् । निहन्तुं शक्ताः = निघ्नानाः । अनेन शानप्र० → आन । 'गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक (४।२।४४) अलुक । 'हनो ह्नो घ्नः' (२।१।११२) न० । प्रथमा जस् । [समश्नानाः] सम् 'अशश् भोजने' (१५५८) अश् । अनेन शानप्र० → आन० । 'क्यादेः' (३।४।७९) नाप्र० → ना । प्रथमा जस् । शीलं = स्वभावः । + श० म० न्या० - अत्र 'कर्मणि कृतः' (२।२।८३) इति षष्ठ्याः 'तृनुदन्ता०' (२।२।९०) इति निषेधात् 'कर्मणि' (२।२।४०) इति द्वितीया भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy