________________
पञ्चमाध्यायस्य द्वितीयः पादः ॥
१४१
'कमेणिङ् (३।४।२) णिङ्प्र० → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । कामनं = कामः । 'युवर्ण-वृ-दृ-वशरण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० → अ । 'णेरनिटि' (४।३।८३) णिङ्लोपः । मर्तुं कामोऽस्य = मर्तुकामः । 'तुमश्च मन:-कामे' (३।२।१४०) म्लोपः।
__मा पाक्षीत्, मा पक्त, मा जीवीदित्यादि वाक्यमर्थकथनम्, यावता आक्रोशविवक्षायामनेन शत्रानशावेव, असरूपविधिनाप्यत्राद्यतनी नेष्टा । केचिदसरूपविधिमिच्छन्ति तन्मते वा वाक्यम्, यद्वा मा क्लेदयन्, मा क्लेदयमानः, मा प्राणान् धारयन्नित्यर्थान्तरेण वा वाक्यम् ।
"मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु, जननीक्लेशकारिणः' ॥ १ ॥
___ [शिशुपालवधे सर्गः-२] [परावज्ञादुःखदग्धोऽपि] परेषामवज्ञा = परावज्ञा, सैव दुःखं, तेन दग्धोऽपि । शत्रानशोरनुवृत्तावपि तौ ग्रहणमवधारणार्थम्, तेनात्र विषये असरूपविधिनाऽप्यद्यतनी न भवति ॥छा।
वा वेत्तेः क्वसः ॥५।२।२२ ॥
[वा] वा प्रथमा सि । [वेत्तेः ] वेत्ति पञ्चमी ङसि । [क्वसुः] क्वसु प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते'० (१।३।५३) विसर्गः ।
[साधुस्तत्त्वं विद्वान्, विदन्, वेत्ति] तत्त्व द्वितीया अम् । 'विदक् ज्ञाने' (१०९९) विद् । वेत्तीति विद्वान् । अनेन क्वसुप्र० → वस् । एवम्-विदन् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) सलुक् ।
[विदुषा कृतम्, विदता कृतम्] वेत्ति = विद्वान्, तेन = विदुषा - विदता । अनेन क्वसुप्र० → वस्, शतृप्र० → अत् । तृतीया टा । 'क्वसुष्मतौ च' (२।१।१०५) उष् ।
[वैदषः । अनेन निष्पन्नः विद्वस मण्डयते । विदषोऽयम् = वैदुषः । 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ। 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'क्वसुष्मतौ च' (२।१।१०५) "उष्" आदेशः ।
[वैदतः] विदतोऽयम् = वैदतः । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे'० (७।४।१) वृ० ऐ ।
[विद्वद्भक्तिः ] विद्वान् भक्तिरस्य = विद्वद्भक्तिः । [विदद्भक्तिः] विदन् भक्तिरस्य = विदद्भक्तिः ।
[विद्वाल्लभते, विदल्लभते ] वेत्तीति विद्वान् । अनेन क्वसुप्र० → वस्, शतृप्र० → अत् । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घङयाब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् । 'पदस्य' (२।१८९) सलोपः । अग्रे लभते । 'लि लौ' (१।३।६५) लकारः ।
ककारः कित्कार्यार्थः । उकारो याद्यर्थः ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org