SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः ॥ १३३ [अवात्सुरिह पुरा छात्राः ] 'वसं निवासे' (९९९) वस् । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'व्यञ्जनानामनिटि' (४।३।४५) वृ० आ । 'सस्त: सि' (४।३।९२) सस्य त० । 'सिज-विदोऽभुवः' (४।२।९२) अन् → पुस्० → उस्० । 'अड् धातोरादि'० (४।४।२९) अट् । [अवसन्निह पुरा छात्राः] वस् । ह्यस्तनी अन् । 'कर्तर्यनद्भ्यः '० (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'अड् धातोरादि'० (४।४।२९) अट् । [ऊषुरिह पुरा छात्राः] वस् । परोक्षा उस् । 'यजादि-वचेः किति' (४।१०७९) व० → उ० । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोप: । 'समानानां' ० (१।२।१) दीर्घः । 'घस्-वसः' (२।३।३६) षत्वम् । [तदाऽभाषिष्ट राघवः ] तद् । तस्मिन् काले तदा । 'किम्-यत्-तत्-सर्वैका-ऽन्यात् काले दा' (७।२।९५) दाप्र० । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । “लोकात्' (१।१।३) अकारेण संहिता । 'भाषि व्यक्तायां वाचि' (८३२) भाष् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिन् । 'स्ताद्यशितो'० (४।४।२९) इट् । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां'० (१।३।६०) त० → ट० । 'अड् धातोरादि'. (४।४।२९) अट् । [तदाऽभाषत राघवः] भाष् । ह्यस्तनी त । 'कर्तर्य०' (३।४।७१) शव् । 'अड् धातोरादि०' (४।४।२९) अट् । [बभाषे राघवस्तदा] भाष् । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे '० (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेलक' (४|११४४) अनादिव्यञ्जनलोपः । 'हस्वः (४।१।३९) हस्वः । 'द्वितीय-तर्ययोः पूर्वी' (४।११४२) भ० - ब० । रघु । रघोरपत्यम् = राघवः । 'ङसोऽपत्ये' (६।१।२८) अणप्र० → अ । 'वृद्धिः स्वरेष्वादेर्णिति तद्धिते' (७४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। स्मे च वर्तमाना ॥५।२।१६ ॥ [स्मे] स्म सप्तमी ङि । [च] च प्रथमा सि । [वर्तमाना] वर्तमाना प्रथमा सि । [इति स्मोपाध्यायः कथयति] 'कथण वाक्यप्रबन्धे' (१८८०) कथ । 'चुरादिभ्यो णिच् (३।४।१७) णिच्प्र० । 'अतः' (४।३।८२) अलोपः । वर्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [पृच्छति स्म पुरोधसम्] 'प्रछंत् जीप्सायाम्' (१३४७) प्रछ् । वर्त्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र० → अ । 'ग्रह-व्रस्च-भ्रस्ज-प्रच्छ:' (४।१।८४) य्वृत् प्र० → पृ० । स्म प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [वसन्तीह पुरा छात्राः ] 'वसं निवासे' (९९९) वस् । वर्तः अन्ति । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [भाषते राघवस्तदा] 'भाषि व्यक्तायां वाचि' (८३२) भाष । वर्त० ते । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । रघ । रघोरपत्यम् = राघवः । 'ङसोऽपत्ये' (६।१।२८) अणप्र० + अ । 'वृद्धिः स्वरे'० (७४।१) व० आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । तद् । तस्मिन् काले | 'किम्-यत्-तत्-सर्वैका-ऽन्यात् काले दा' (७।२।९५) दाप्र० । 'आ द्वेरः' (२।११४१) द्० → अ० । 'लगस्यादेत्यपदे' (२।१।११३) अलोपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy