SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [अभिजानासि चैत्र ! शश्वदध्यैमहि] अभि 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । वर्त० सिव् । 'क्रयादेः' (३।४।७९) श्नाप्र० → ना । 'जा-ज्ञा-जनोऽत्यादौ' (४।२।१०४) ज्ञा० → जा० । 'अध्यैमहि' पूर्ववत् ॥छा। अविवक्षिते ॥ ५।२।१४ ॥ [अविवक्षिते] विवक्षणं = विवक्षितम्, न विवक्षितं = अविवक्षितम्, तस्मिन् । [अभवत् सगरो राजा] 'भू सत्तायाम्' (१) भू । ह्यस्तनी दिव् → त् । 'कर्तर्यनद्भ्यः '० (३।४।७१) शव् । 'नामिनो' ० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'अड् धातोरादि'० (४।४।२९) अट् । [अहन् कंसं वासुदेवः ] 'हनं हिंसा-गत्योः' (११००) हन् । ह्यस्तनी दिव् → त् । 'अड् धातोरादि'० (४।४।२९) अट् । 'व्यञ्जनाद् देः सश्च दः' (४।३।७८) दिलोपः । ["अन्वनैषीत् ततो वाली न्यक्षिपच्चाङ्गदं सुग्रीवं प्रोचे सद्भावमागतः"] अनु 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।६७) नी । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेदि-स्योः' (४।३।६५) ईत् २ ई । 'सिचि परस्मै'० (४।३।४४) वृद्धिः ऐ । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । 'अड् धातोरादि'. (४।४।२९) अट् । 'क्षिपीत् प्रेरणे' (१३१७) क्षिप् । ह्यस्तनी दिव् →त् । 'तुदादेः शः' (३।४।८१) शप्र० → अ । 'अड् धातोरादि०' (४।४।२९) अट् । सुग्रीवं । प्र 'वचं भाषणे' (१०९६) वच् । परोक्षा ए । 'द्विर्धातुः परोक्षा-उ०' (४।१।१) द्विः । 'यजादि-वश-वचः सस्वरान्तस्था खत्' (४२७२) वस्य उ० । 'यजादि-वचेः किति' (४७९) मूलप्रकृतेर्वकारस्य उ० । 'समानानां तेन दीर्घः (१।२।१) दीर्घः । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ओ । ["राक्षसेन्द्रस्ततोऽभैषीत् सैन्यं समस्तं सोऽयुयुत्सयत् स्वयं युयुत्सयांचक्रे"] 'जिभीक् भये' (११३२) भी । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेदि-स्योः' (४।३।६५) ईत् →ई। 'सिचि परस्मै'० (४।३।४४) वृद्धिः ऐ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'अड् धातोरादि'० (४।४।२९) अट् । _ 'युधिच् सम्प्रहारे (१२६०)युध् । योधितु(द्ध)मिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः (३।४।२१) सन्प्र० । 'सन्यङश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|११४४) अनादिव्यञ्जनलोपः । 'अघोषे प्रथमोऽशिट:' (१३५०) ध० → त० । युयुत्सन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'अतः' (४।३।८२) अलुक् । ह्यस्तनी दिव् → त् । 'कर्तर्यन'० (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । अभूवंस्तापसाः केचित्, पाण्डुपत्रफलाशिनः । पारिव्राज्यं तदाऽऽदत्त, मरीचिश्च तृषार्दितः ॥ [अभूवन्] 'भू सत्तायाम्' (१) भू । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'पिबैति-दा-भू-स्थ: सिचो लुप्०' (४।३।६६) सिच्लुप् । 'धातोरिवर्णोवर्णस्येयुत्'० (२।१।५०) उव् । 'भुवो वः परोक्षा-ऽद्यतन्योः' (४।२।४३) ऊ० । 'अड् धातोरादि'० (४।४।२९) अट् ॥छ।। वाऽद्यतनी पुराऽऽदौ ॥ ५।२।१५ ॥ [वा] वा प्रथमा सि । [अद्यतनी] अद्यतनी प्रथमा सि । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । [ पुराऽऽदौ ] पुरा आदिर्यस्य सः=पुरादिः, तस्मिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy