________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । 'द्विर्धातुः परोक्षा- ङे० ' ( ४|१|१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ञ्णिति' (४/३/५०) उपान्त्यवृद्धिः आ ।
[ चिन्तयन् किलाहं शिरः कम्पयांबभूव, अङ्गुलिं स्फोटयामास ] 'चितुण् स्मृत्याम्' (१६४५) चित् । ‘उदितः स्वरान्नोऽन्तः ' ( ४|४|९८ ) नोऽन्तः । ' चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । चिन्तयतीति । 'शत्रानशावेष्यति' ० (५/२/२०) शतृप्र० → अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति ' ( ४|३|१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । प्रथमा सि । 'ऋदुदित: ' (१।४।७०) नोऽन्तः । 'दीर्घङ्याब् ' ० (१।४।४५) सिलुक् । ‘पदस्य' (२।१।८९) तलोपः । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः ।
१३०
'कपुङ् चलने' (७५७) कप् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) कम्प् । चकम्पे शिरः कश्चित्, तं कम्पमानं अहं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । परोक्षा णव् । 'धातोरनेकस्वरादाम्' ० ( ३।४।४६ ) आम् । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'भू सत्तायाम् ' (१) भू । परोक्षा णव् → अ । 'द्विर्धातुः परोक्षा-ङे०' (४|१|१) द्विः । 'ह्रस्वः' (४|१|३९) ह्रस्वः । 'भू-स्वपोरदुतौ' (४।१।७०) भु० भ० । 'द्वितीय - तुर्ययो: पूर्वी' (४|१|४२) भ० ब० । 'धातोरिवर्णोवर्णस्येयुव्' ० (२।१।५०) उव् । 'भुवो वः परोक्षा -ऽद्यतन्योः ' (४।२।४३) ऊ ।
'स्फुटत् विकसने' (१४४०) स्फुट् । स्फुटन्तं प्रयुङ्क्ते । 'प्रयोक्तृ ' ० ( ३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । परोक्षा णव् । 'धातोरनेकस्वरादाम् परोक्षाया: ' ० ( ३।४।४६) आम् । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
अतिनिह्नवे - कश्चित् केनचिदुक्तः [कलिङ्गेषु त्वया ब्राह्मणो हतः, स तदपहनुवान आह- कः कलिङ्गान् जगाम, को ब्राह्मणं ददर्श, नाहं कलिङ्गान् जगाम ] 'हनुंङ्क् अपनयने' (११०६) हनु । अपहनुते = अपहनुवानः । 'शत्रानशावेष्यति' ० (५/२/२०) आनश्प्र० → आन । 'संयोगात् ' (२।११५२) उव् । 'बूंग्क् व्यक्तायां वाचि' (११२५) ब्रू । वर्त्त० ते (तिव्) । 'ब्रूग: पञ्चानां पञ्चाऽऽहश्च (४।२।११८) ते (तिव्) - ब्रू० आह० ।
अम (३९२) - द्रम (३९३) - हम्म (३९४ ) - मीमृ ( ३९५) 'गम्लृ गतौ' (३९६) गम् । परोक्षा णव् → अ । 'द्विर्धातुः परोक्षा - ङ० ' ( ४|१|१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ग- होर्ज: (४|१|४०) ग० → ज० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । 'दृशं प्रेक्षणे' (४९५) दृश् । परोक्षा णव् → अ । 'द्विर्धातुः परोक्षा-ङे०' (४|१|४) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
अतिग्रहणादेकदेशापह्नवे ह्यस्तन्येव -
[न कलिङ्गेषु ब्राह्मणमहमहनम् ] 'हनंक् हिंसा - गत्योः ' (११००) हन् । ह्यस्तनी अम्व् । 'अड् धातोरादि'० (४|४|२९) अट् ॥छ
-
परोक्षे || ५|२|१२ ॥
[ परोक्षे ] अक्षाणां परः = परोक्षस्तस्मिन् ।
यद्यपि साध्यत्वेनानिष्पन्नत्वात् सर्वोऽपि धात्वर्थः परोक्षस्तथापि प्रत्यक्षसाधनत्वेन तत्र लोकस्य प्रत्यक्षत्वाभिमानोऽस्ति, यत्र स नास्ति स परोक्षः । अत्र प्रत्यक्षाणि साधनानि उपकाराणि यस्य स तस्य भावः ।
Jain Education International
1
[ जघान कंसं वासुदेवः ] 'हनंक् हिंसा-गत्योः ' (११००) हन् । परोक्षा णव् अ । 'ञि - णवि घन्' (४३|१०१) घन् । 'द्विर्धातुः परोक्षा - ङे ' ० (४/१/१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४|१|४२) घ० ग० । 'ग- होर्ज:' ( ४|१|४०) ग० ज० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ ।
For Private
Personal Use Only
www.jainelibrary.org