________________
पञ्चमाध्यायस्य द्वितीयः पादः॥
१२९
अय् ।卐 अधि 'इंफू अध्ययने' (११०४) इ। भवि० स्ये । 'नामिनो गुणो०' (४।३।१) गु० ए । अव अम (३९२) - द्रम (३९३) हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । वर्त० सिव् । 'कर्त्तर्यन'० (३।४।७१) शव् । 'गमिषद्यमश्छ: (४।२।१०६) म०. → छ । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमोऽशिटः' (१।३।५०) छ० → च० । गम् । भविष्यन्ती स्यामस् । 'स्ताद्यशितो०' (४।४।३२) इट् । ('गमोऽनात्मने (४।४।५१) इट) । __ [अभिजानासि मित्र ! यत् कलिङ्गेष्ववसाम ] 'वसं निवासे' (९९९) वस् । ह्यस्तनी म । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'म-व्यस्याः' (४।२।११३) दीर्घः स० → सा० । अभिजानासि मित्र ! यत् इति क्रियाविशेषणमेतत् यद्वसनं न स्मरसीत्यर्थः, यदा तु यस्माद्धेतोः कलिङ्गेषु उषितवन्त इति विवक्ष्यते तत्र भविष्यन्त्येव ॥छ।।
वाऽऽकाङ्क्षायाम् ॥ ५।२।१० ॥ [वा] वा प्रथमा सि । [आकाङ्क्षायाम् ] आकाङ्क्षणं = आकाङ्क्षा, तस्याम् । अयदीति नानुवर्तते ।
[स्मरसि मित्र ! कश्मीरेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे पास्यामः पयांसि च] 'वसं निवासे' (९९९) वस् । भविष्यन्ती स्यामस् । 'सस्तः सि' (४।३।९२) स० → त० । 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भविष्यन्ती स्यामहे । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-ज: क-गम्' (२।१।८६) ज० → ग० । 'अघोषे'० (१३५०) ग०
2 । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । क-षयोगे क्ष० । 'पां पाने' (२) पा । भविष्यन्ती स्यामस् ।
[स्मरसि मित्र ! कश्मीरेष्ववसाम तत्रौदनमभुञ्जमहि] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । ह्यस्तनी महि । 'रुधां स्वराच्थ्नो नलुक् च' (३।४।८२) श्नप्र० → न । 'श्ना-ऽस्योर्मुक्' (४।२।९०) अलुक् । 'अड् धातोरादि'० (४।४।२९) अट् । अत्र वासो लक्षणं भोजनं पानं च लक्ष्यमिति लक्ष्यलक्षणयोः सम्बन्धे प्रयोक्तुराकाङ्क्षा भवति ॥छ।।
कृताऽस्मरणा-ऽतिनिह्नवे परोक्षा ॥ ५।२।११ ॥ [कृताऽस्मरणाऽतिनिह्नवे] कृतस्य अस्मरणं = कृताऽस्मरणम्, अतिशयेन निह्नवः = अतिनिह्नवः, कृताऽस्मरणं च अतिनिह्नवश्च = कृताऽस्मरणाऽतिनिह्नवस्तस्मिन् ।
[परोक्षा] परोक्षा प्रथमा सि । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । अपरोक्षकालार्थ आरम्भः ।
[सुप्तोऽहं किल विललाप] 'बिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वप् । स्वपिति स्म-सुप्तः । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० →त । 'स्वपेर्यङ्-डे च' (४।१८०) वृत् वस्य उ० । वि रप (३३५) - 'लप व्यक्ते वचने' (३३६) लप् । परोक्षा णव् → अ । 'द्विर्धातुः परोक्षा-डे '० (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[मत्तोऽहं किल विचचार] 'मदैच हर्षे' (१२३६) मद् । माद्यति स्म । 'गत्यर्था-ऽकर्मक-पिब-- भुजेः' (५।१।११) क्तप्र० → त । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । वि 'चर भक्षणे च' (४१०) चर् । परोक्षा णव् → अ । + अत्र या प्रक्रिया प्रदर्शिता सा 'अध्येष्ये' इत्येतद् रूपमधिकृत्य ज्ञेया । बृहवृत्तौ तु 'अध्येषि' इत्येतद् रूपमस्मिन् स्थाने पठ्यते । बुध्यसे चेतयसे इत्यादीनां साहचर्यानुरोधतः अत्र तदेव स्वीकर्तव्यं भाति । 'अधि इंक् स्मरणे' (१०७४) इ । वर्तमाना सिव् । इतीह प्रकृति-प्रत्ययव्यवस्था स्वीकर्तव्या भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org