SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [सस्वजानः] 'वञ्जित् सङ्गे' (१४७१) ष्वञ्ज । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वङ्ग् । सस्वञ्ज (षस्वजे) = सस्वजानः । अनेन कानप्र० → आन । 'द्विर्धातुः परोक्षा-उ०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ऋदन्तानां गुणप्रतिषेधार्थं च - [शिशीर्वान्] क (१५२९) - मृ (१५३०) - 'शृश् हिंसायाम्' (१५३१) शू । शशार = शिशीर्वान् । अनेन क्वसुप्र० → वस् । 'ऋतां क्ङितीर्' (४।४।११६) इर् । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यञ्जनलोपः । 'श्वादेर्नामिनो दीर्घो र्वोर्व्यञ्जने' (२।१।६३) दीर्घः ।। [तितीर्वान्] 'तृ प्लवन-तरणयोः' (२७) तृ । ततार = तितीर्वान् । अनेन क्वसुप्र० → वस् । 'ऋतां क्ङितीर्' (४।४।११६) इर् । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । कर्मणि - [शशिराणः] शू । शशरे = शशिराणः । अनेन कानप्र० → आन । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्विः । 'हस्वः' (४।१।३९) हुस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ऋतां क्ङितीर्' (४।४।११३) इर् । 'रवर्णान्नो ण०' (२।३।६३) णत्वम् । [ततिराणः] तृ । तेरे = ततिराणः । अनेन कानप्र० → आन । 'द्विर्धातुः परोक्षा-डे ०' (४।१।१) द्विः । 'हुस्वः' (४।१।३९) हुस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ऋतां क्ङितीर्' (४।४।११३) ऋकारस्य इर् । 'र-घुवर्णान्नो ण०' (२।३।६३) णत्वम् । [पपुराणः] पृ । पपरे = पपुराणः । अनेन कानप्र० → आन । 'द्विर्धातः परोक्षा-डे' (४।१।१) द्विः । 'हस्वः' (४।१।३९) हुस्वः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'ओष्ठ्यादुर्' (४।४।११७) ऋकारस्य उर् । 'र-वर्णान्नो ण.' (२।३।६३) णत्वम् ।।छ।। वेयिवदनाश्वदनूचानम् ॥ ५।२।३ ॥ [वा] वा प्रथमा सि । [ईयिवदनाश्वदनुचानम्] ईयिवांश्च अनाश्वांश्च अनूचानश्च = ईयिवदानाश्वदनूचानम् । 'संस् - ध्वंस् - क्वस्सनडुहो दः' (२०६८) सकारस्य दः । [ईयिवान् ] 'इंण्क् गतौ' (१०७५) इ । इयाय = ईयिवान् । [समीयिवान] समियाय = समीयिवान । [उपेयिवान् ] उपेयाय = उपेयिवान् । सर्वत्र अनेन क्वसुप्र० → वस् । 'घसेकस्वराऽऽतः क्वसोः' (४।४।८२) इट → इ । द्विवचनम् । 'इणः' (२।१५१) इय् । 'समानानां' ० (१।२।१) दीर्घः । [अनाश्वान्] नपूर्वकः 'अशश् भोजने' (१५५८) अश् । नाश । अनेन क्वसुप्र० → वस् । द्विः । 'अस्याऽऽदेराः परोक्षायाम्' (४।१।६८) अकारस्य आ । 'अन् स्वरे' (३।२।२९) अन् । अनेन इडभावश्च निपात्यते । [अनूचानः] 'बॅग्क् व्यक्तायां वाचि' (११२५) ब्रू । 'अस्ति-बुवोभू-वचावशिति' (४।४।१) "वच्"आदेशः । 'वचंक् भाषणे' (१०९६) वच्, अनुपूर्व० । अनूवाच = अनूचानः । अनेन कानप्र० → आन । निपातनात् 'यजादि-वचेः किति' (४।१।७९) य्वृत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy