SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां बुण्ढिकायां । [ अन्ववात्सीत् ] अनु 'वसं निवासे' (९९९) वस् । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३|४|५३) सिच् । 'स: सिजस्तेर्दि-स्यो:' ( ४।३।६५ ) ईत् । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः आ । 'सस्तः सि' ( ४ | ३ |९२) सस्य त० । 'अड् धातोरादि' ० (४।४।२९) अट् । १२२ [ अन्ववसत् ] अनु-वस् । ह्यस्तनी दिव् (४|४|१९) अट् । [ शुश्रुवे ] श्रु । परोक्षा ए । 'द्विर्धातुः परोक्षा - ङ० ' ( ४|१|१) द्विः । व्यञ्जनस्याऽनादेर्लुक् (४|१|४४) अनादिव्यञ्जनलोपः । 'संयोगात् ' (२।१।५२) उव् । → त् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अड् धातोरादि'० [ अश्रावि ] श्रु । अद्यतनी त । 'भाव - कर्मणोः ' ( ३|४|६८) ञिच् → इ-तलोपश्च ।' 'नामिनोऽकलि-हले ः ' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव् ' (१।२।२४) आव् । 'अड् धातोरादि ' ० (४।४।२९) अट् । यक् - क्येषु च ' यङ् [ अश्रूयत ] श्रु । ह्यस्तनी त । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'दीर्घश्चि - (४|३|१०८) दीर्घः । अड् धातोरादि' ० ( ४।४।२९) अट् । विभक्तिष्विति तेन विभक्तीनामेवाऽन्योऽन्यमसरूपविधिर्नास्ति, प्रत्ययेन तु विभक्तीनामस्त्येव तेन उपश्रुतः उपश्रुतवान् इति सिद्धम् ॥ छ ॥ - तत्र क्वसु- कानौ तद्वत् ॥ ५२२ ॥ [ तत्र ] तद् तस्याम् = तत्र । 'सप्तम्याः' (७१२१९४) त्रप्प्र० । 'आ द्वेरः' (३|१|४१) द्० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः । प्रथमा सि । 'अव्ययस्य' ( ३।२७) सिलुप् । [ क्वसुकानौ ] क्वसुश्च कानश्च = क्वसुकानौ । [ तद्वत् ] सेव = तद्वत् । 'स्यादेरिवे' (७।१।५२) वत्प्र० । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलुप् । तौ च परोक्षावत् व्यपदिश्यते न तु परोक्षासंज्ञौ, तथा तदन्तस्य नाम संज्ञा न स्यात्, तत्र क्वसुः परस्मैपदत्वात् कर्तरि, कानस्त्वात्मनेपदत्वाद् भाव - कर्मणोरपि । Jain Education International [ शुश्रुवान् ] श्रु । शुश्राव = शुश्रुवान् । अनेन क्वसुप्र० वस् । 'द्विर्धातुः परोक्षा - ङे० ' ( ४।१।१) द्विर्वचनम् । [ उपशुश्रुवान् ] उप-श्रु । उपशुश्राव = उपशुश्रुवान् । अनेन क्वसुप्र० वस् । 'द्विर्धातुः परोक्षा - ङे० ' ( ४|१|१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'न्स्महतोः ' (१।४।८६) दीर्घः । 'दीर्घड्याब् - व्यञ्जनात् से: ' (१।४।४५) सिलुक् । 'पदस्य' (२२११८९) सलुक् । [सेदिवान् ] सद् । ससाद = सेदिवान् । [ उपसेदिवान् ] उप-सद् । उपससाद = उपसेदिवान् । अनेन क्वसुप्र० (४।४।८२) इट् → इ । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः' (४।१।२४) एत्वम् । [ प्रसेदिवान् ] प्र-सद् । प्रससाद = [ आसेदिवान् ] आ-सद् । आससाद = प्रसेदिवान् । आसेदिवान् । For Private Personal Use Only → वस् । 'घसेकस्वराऽऽतः क्वसोः ' www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy