SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ ॥ अथ पञ्चमाध्यायस्य द्वितीयः पादः ॥ श्रु-सद-वस्भ्यः परोक्षा वा ॥ ५।२।१ ॥ [ श्रुसदवस्भ्यः ] श्रुश्च सदश्च वस् च = श्रुसदवस्, तेभ्यः = श्रुसदवस्भ्यः । पञ्चमी भ्यस् । [ परोक्षा ] परोक्षा प्रथमा सि । [ वा ] वा प्रथमा सि । भूत इत्यनुवर्तते । [ उपशुश्राव ] उप 'श्रुंट् श्रवणे' (१२९६) श्रु । परोक्ष णव् अ । 'द्विर्धातुः परोक्षा ङे प्राक् तु स्वरे स्वरविधेः ' (४।१।१) द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'नामिनोऽकलि - हले:' ( ४|३|५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । [ उपससाद] उप 'षट्टं विशरण - गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै- ष्ठिव - ष्वष्कः' (२।३।९८) सद् । परोक्षा णव् → अ । ‘द्विर्धातुः परोक्षा - ङे ०', (४|१|१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [ अनूवास ] अनु 'वसं निवासे' (९९९) वस् । परोक्षा णव् (४।१।४४) अनादिव्यञ्जनलोपः । 'यजादि - वश्०' (४।१।७२) वृत् व० वावचनात् यथास्वकालमद्यतनी ह्यस्तनी च [ उपाश्रौषीत् ] उप 'श्रुं श्रवणे' (१२९६) श्रु । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३|४|५३) सिच् । 'स: सिजस्तेर्दि-स्योः' (४।३।६५ ) ईत् । 'सिचि परस्मै समानस्याऽङिति (४।३।४४) वृद्धिः औ । 'अड् धातोरादि०' (४।४।२९) अट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [ उपाशृणोत्] उप 'श्रुट् श्रवणे' (१२९६) श्रु । ह्यस्तनी दिव् त् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० नुः । 'उ-श्नोः' (४।३।२) गु० ओ । श्रौत कृवु - धिवु - पा घ्राध्मा - स्था - म्ना - दाम्०' (४।२।१०८) “शृ”आदेशः । 'अड् धातोरादि०' (४।४।२९) अट् । - - - Jain Education International - दि [ उपासदत् ] उप 'षद्लृ विशरण गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै' ० ( २।३।९८) सद् | अद्यतनी → त् । ‘लृदिद् घुतादि - पुष्यादेः परस्मै' (३|४|६४) अङ् । 'अड् धातोरादि' ० (४।४।२९) अट् । अ । 'द्विर्धातुः ० ' ( ४|१|१) द्विः । 'व्यञ्जन०' उ० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । - [ उपासीदत्] उप 'षद् विशरण - गत्यवसादनेषु' (९६६ ) षद् । 'षः सोऽष्ट्यै' ० (२।३।९८) सद् । दिव् - पाघ्राध्मा - स्था' ० (४।२।१०८) → त् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । श्रौति - कृ "सीद" आदेश: । 'अड् धातोरादि' ० (४।४।२९) अट् । For Private - Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy