SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११४ प्रत्ययनियमं कालविषयमाह (२) तथा एभ्यः कृगो भूत एव क्विप् । इह न भवति [ कर्मकारः ] कर्म करोति - करिष्यति वा = कर्मकारः । [ मन्त्रकारः ] मन्त्रं करोति - करिष्यति वा = मन्त्रकारः । [ पदकारः ] पदं करोति करिष्यति वा = पदकारः । सर्वत्र ‘कर्मणोऽण्' (५।१/७२ ) अण्प्र० अ । नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । कालनियमं प्रत्ययविषयमाह (३) तथा एभ्यः परात् कृगो भूते क्विबेव, नान्यः प्रत्यय:, तेन - [ कर्मकार:] कर्म कृतवान् = कर्मकारः । 'कर्मणोऽण्' (५/१/७२ ) इत्यण् न भवति । [ शास्त्रकृत् ] शास्त्रं 55 करोतीति शास्त्रकृत् । [ तीर्थकृत् ] तीर्थं करोतीति तीर्थकृत् । [ वृत्तिकृत् ] वृत्तिं करोतीति वृत्तिकृत् । [ सूत्रकृत् ] सूत्रं करोतीति सूत्रकृत् । - श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ भाष्यकृत् ] भाष्यं करोतीति भाष्यकृत् । सर्वत्र क्विप्प्र० । 'ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । ' अप्रयोगीत् ' (१।१।३७) क्विप्लोपः ॥छ । सोमात् सुगः || ५|१|१६३ ॥ [ सोमात् ] सोम पञ्चमी ङसि । [सुग: ] सुग् पञ्चमी ङसि । [ सोमसुत्] सोम ‘पुंग्ट् अभिषवे' (१२८६) षु । 'षः सोऽष्ट्यै- ष्ठिव - ष्वष्कः (२।३।९८) सु । सोमं सुतवान् सोमसुत् । अनेन क्विप्प्र० । 'ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । अयमपि नियमार्थो योगः । चतुर्विधश्चात्र नियमः । धातुनियमं उपपदविषयमाह Jain Education International (१) सोमादेवेति नियमात् [ सुरासावः] सुरां सुतवान् = सुरासावः । कर्मणोऽण्' (५/१/७२ ) अणूप्र० अ । नामिनोऽकलि-हले ः ' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । एवम् - [ सुरासुत्] सुरां सुतवान् = सुरासुत् । क्विप्' (५|१|१४८) क्विप्प्र० । 'ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । फ श० म० न्या० - करोतीत्यस्य स्थाने कृतवान् । For Private = Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy