________________
११२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां ।
[भ्रूणहा ] भ्रूणं हतवान् = भ्रूणहा ।
[वृत्रहा ] वृत्रं हतवान् = वृत्रहा । सर्वत्र अनेन क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
'क्विप्' (५।१।१४८) इत्यनेनैव सिद्धे नियमार्थं वचनम्, चतुर्विधश्चात्र नियमः । धातूपपदकालप्रत्ययेन चातुर्विध्यं धातुनियमम्, उपपदविषयं दर्शयति(१) ब्रह्मादिभ्य एव हन्तेभूते क्विप्, नान्यस्मात्
[पुरुषघातः] पुरुष हतवान् = पुरुषघातः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'ञ्णिति घात्' (४।३।१००) हन्० → घात् ।
[मधुहा ] मधुदैत्यस्य हतकोऽर्थे-कामधुहननं योग्यकालं इति वाक्ये क्विपि मधुहा ।
[अहिहा] अहेर्हतवान् ।
[हिमहा ] हिमस्य हन्ता । [तमोपहा ] तमसोऽपहन्ता ।
[असुरहा ] असुरस्य हन्ता ।
[आखुहा] आखोर्मूषकस्य हन्ता = आखुहा इत्यादिषु वर्त्तमान-भविष्यतोः कालमात्रे वा 'क्विप्' (५।१।१४८) इत्यनेनैव क्विपप्र० । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः०' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
तथा उपपदनियम धातुविषयं दर्शयति । (२) ब्रह्मादिभ्यो हन्तेरेव भूते नान्यस्माद् धातोः क्विप्
[ब्रह्माध्यायः] ब्रह्म = शास्त्रं अधीतवान् = ब्रह्माध्यायः । 'कर्मणोऽण' (५।१।७२) अण्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय् (१।२।२३) आय् ।
ब्रह्मविदादयस्तु भूताविवक्षायाम् । (३) तथा ब्रह्मादिभ्यो हन्तेभूते क्विबेव नान्यः प्रत्ययः - [ब्रह्महा ] ब्रह्माणं हतवान् = ब्रह्महा इति क्विबेव भवति, न अण्-णिनौ ।
[ब्रह्मघ्नः] वृत्रस्य(ब्रह्म) हननं = वृत्रघ्नः(ब्रह्मघ्नः) । 'ब्रह्मादिभ्यः' (५।१३८५) टक्प्र० → अ । 'गम-हन-जनखन-घसः स्वरेऽनङि क्ङिति लुक्' (४।२।४४) अलुक् । 'हनो नो नः' (२।१।११२) "न" आदेशः ।
यदि ब्रह्मादिभ्यो हन्तेः क्विबेव तर्हि कथं तृजिति पृच्छति
प्रश० म० न्या० - वर्तमाने मधुं हन्तीति, भविष्यति मधुं हनिष्यतीति वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org