________________
पञ्चमाध्यायस्य प्रथमः पादः॥
१०५
(१।२।२१) रत्वम् । प्रथमा सि । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । 'ऋत्विज्-दिश्-दृश्-स्पृश्-स्रज्०' (२।१।६९) ज०
→ ग० । ककारः कित्कार्यार्थः । पकारः पित्कार्यार्थः । 'हुस्वस्य तः पित्कृति' (४।४।११३) तोऽन्त आगच्छति, क्विप् विद्यमाने सति एकमेतत्कार्यम्, द्वितीयं तु 'नामिनो०' (४।३।१) गुणो न, 'अ: सृजि-दृशोऽकिति' (४|४|१११) इत्यादिना अकारागमो न भवति, तृतीयं तु 'अञ्चोऽनर्चायाम्' (४।२।४६) इत्यादिना नलुक् भवति । अन्यान्यपि कार्याणि भविष्यन्ति ॥छ।
स्पृशोऽनुदकात् ॥ ५।१।१४९ ॥ [स्पृशः] स्पृश् पञ्चमी ङसि । [ अनुदकात् ] न उदकं = अनुदकम्, तस्मात् । [घृतस्पृक् ] 'स्पृशंत् संस्पर्शे' (१४१२) स्पृश् । घृतं स्पृशतीति घृतस्पृक् । [ मर्मस्पृक् ] मर्माणि स्पृशतीति मर्मस्पृक् । [व्योमस्पृक् ] व्योम स्पृशतीति व्योमस्पृक् । [ मन्त्रस्पृक् ] मन्त्रेण स्पृशतीति मन्त्रस्पृक् ।
सर्वत्र अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'ऋत्विज्-दिश्-दृश्-स्पृश्०' (२।१।६९) श० → ग० । 'विरामे वा' (१३।५१) ग० → क० ।
[उदकस्पर्शः] उदकं स्पृशति = उदकस्पर्शः । 'कर्मणोऽण' (५।११७२) अण्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । __ [उदकेन स्पा ] स्पृश् । श्वस्तनी ता । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । यज-सृज-मृज-राज-भ्राज०' (२।१।८७) श० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ।
अनुदक इति प्रर्युदासाश्रयणादुदकसदृशमनुपसर्ग नाम गृह्यते, तेनेह न याति उपस्पृशति वाक्यमेतत्स्थितं, न तु प्रत्यय इति भावार्थः ॥छ।
अदोऽनन्नात् ॥ ५।१।१५० ॥
[अदः] अद् पञ्चमी ङसि ।
[अनन्नात] न अन्नम = अनन्नम. तस्मात ।
[आमात् ] आम 'अदं भक्षणे' (१०५९) अद् । आममत्ति = आमात् । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'विरामे वा' (१।३५१) द० → त० ।।
[सस्यात् ] सस्यमत्ति - भक्षयति = सस्यात् । अनेन क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'विरामे वा' (१३५१) द० → त० ।।
[अन्नादः] अन्नमत्ति = अन्नादः । 'कर्मणोऽण' (५।१७२) अण्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
अन्नशब्दो अन्नार्थो गृह्यते, बहुलाधिकारात्
Jain Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org