SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [ प्रसेनजित् ] प्रसेनं जयतीति प्रसेनजित् । [ कर्मजित् ] कर्माणि जयतीति कर्मजित् । [ प्रजित् ] प्रकर्षेण जयतीति प्रजित् । [ अभिजित् ] अभिजयतीति अभिजित् । सर्वत्र अनेन क्विप्प्र० । 'ह्रस्वस्य तः पित्कृति' ( ४|४|११३) तोऽन्तः । 'अप्रयोगीत् ' (१|१| ३७ ) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब् ० ' (१।४।४५) सिलुक् । [ सेनानी: ] सेना 'णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' [ अग्रणी: ] अग्रं नयतीति अग्रणीः । 'ग्रामाऽग्रान्नियः' (२।३।७१) न० [ ग्रामणीः] ग्रामं नयतीति ग्रामणीः । 'ग्रामाऽग्रान्नियः' (२।३।७१) न० [प्रणीः] प्रकर्षेण नयतीति प्रणीः । 'अदुरुपसर्गान्तरो० ' (२।३।७७) न० [नी: ] नयतीति नीः । सर्वत्र अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । प्रथमा सि । 'सो रुः' (२।१।७२ ) स०र० । 'रः पदान्ते विसर्गस्तयो:' (१।३।५३) विसर्गः । १०३ (२।३।९७) नी । सेनां नयतीति सेनानीः । ण० । ० । ण० । [नियौ ] नयत इति नियौ । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१।१।३७ ) क्विप्लोपः । प्रथमा औ । 'धातोरिवर्णोवर्णस्येयुव् स्वरे प्रत्यये' (२|१|५० ) इय् । [नियः ] नयन्तीति नियः । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१|१|३७) क्विप्लोपः । प्रथमा जस् । 'धातोरिवर्णोवर्णस्येयुव्०' (२|१|५०) इय् । [विश्वाराट् ] विश्व 'राजृग् दीप्तौ' (८९३) राज् । विश्वस्मिन् राजते = विश्वाराट् । 'अनेन क्विप्प्र० । 'वसु- राटो: ' (३२८१) विश्वस्य दीर्घः । 'अप्रयोगीत् ' ( १ । १ । ३७) क्विप्लोपः । प्रथमा सि । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'यज-सृज - मृज- राज०' (२२११८७) ज० ष० । 'धुटस्तृतीयः' (२२१७६) ष०ड० । 'विरामे वा' (१।३।५१) ड० → ट० । [ राजराट् ] राजसु राजते । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक । 'यज- सृज - मृज- राज० ' (२२११८७) ज० ष० । 'धुटस्तृतीयः' (२२१७६) ष०ड० । 'विरामे वा' (१।३।५१) ड०ट० । Jain Education International [ सम्राट् ] सम्राजते = सम्राट् । अनेन क्विप्प्र० । 'सम्राट्' (१|३ | १६ ) इत्यनेन अनुस्वाराभावो निपात्यते । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'यज- सृज - मृज- राज० ' (२२११८७) ज० ष० । 'धुटस्तृतीयः' (२२१/७६ ) ष०ड० । 'विरामे वा' (१।३।५१) ड०ट० । [विराट् ] विशेषेण राजते = विराट् । अनेन क्विप्प्र० । शेषं पूर्ववत् । [ राट् ] राजते = राट् । अनेन क्विप्प्र० । शेषं पूर्ववत् । [दध्यङ् ] दधि 'अञ्चू गतौ च ' (१०५) अञ्च् । दध्यञ्चतीति दध्यङ् । अनेन क्विप्प्र० । 'अञ्चोऽनर्चायाम् ' (४।२।४६) नलुक् । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । प्रथमा सि । 'अच: ' (१।४।६९) नोऽन्तः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'पदस्य' (२२१।८९) चलोपः । 'युजञ्च क्रुञ्चो नो ङः' (२।१।७१) न०ड० । For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy