SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [ अण्डसू: ] अण्ड ' षूङौक् प्राणिगर्भविमोचने' (११०७) षू । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सू । अण्डं = अण्डसूः । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१| ३७ ) क्विप्लोपः । प्रथमा सि । 'सो रुः' (२1१/७२) स० र० । 'र: पदान्ते विसर्गस्तयो: ' (१।३।५३) विसर्गः । सू १०१ [ शतसू: ] शतं सूते = शतसूः । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'सो रुः' (२१/७२) स०र० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [ प्रसूः ] प्रकर्षेण सूते = प्रसूः । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । प्रथमा सि । 'सो रु:’ (२।१।७२) स०र० । 'र: पदान्ते विसर्गस्तयोः ' (१।३।५३) विसर्ग: । [मित्रद्विट् ] मित्र 'द्विषक् अप्रीतौ' (११२६) द्विष् । मित्रं द्वेष्टि = मित्रद्विट् । अनेन क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब् ० ' (१।४।४५) सिलुक् । 'धुटस्तृतीयः' (२२१७६) ष०ड० । 'विरामे वा ' (१।३।५१) ड०ट० । [ प्रद्विट् द्विषो जेघ्नीयिषीष्ट वः ] प्रकर्षेण द्वेष्टीति प्रद्विट् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७ ) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्० ' (१|४ |४५) सिलुक् । 'धुटस्तृतीयः' (२|१|७६) ष० → ड० । 'विरामे वा' (१।३।५१) ड०ट० । 'हनंक् हिंसा-गत्योः' (११००) हन् । अत्यर्थं वध्यात् । 'गत्यर्थात् कुटिले' (३|४|११ ) यङ्प्र० → य । ‘हनो घ्नीर्वधे' (४|३|९९) "घ्नी" आदेशः । 'सन्-यङश्च' (४/१/३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४) अनादिव्यञ्जनलोपः । ' ह्रस्व:' ( ४|१|३९) ह्रस्वः । 'द्वितीय - तुर्ययोः पूर्वी' (४|१|४२) घ० → ग० । 'ग-होर्ज:' (४|१|४०) ग० → ज० । 'आ-गुणावन्यादेः' (४|१|४८) गु० ए । आशी: सीष्ट । 'स्ताद्यशितोऽत्रोणादेरिट्' (४|४|३२) इट् । 'अतः ' ( ४|३|८२) अलुक् । [मित्रध्रुक् ] मित्र 'दुहौच् जिघांसायाम् ' (१२३९) द्रुह् । मित्राय द्रुह्यति = मित्रधुक् । [ प्रध्रुक् ] प्रकर्षेण द्रुह्यति = प्रध्रुक् । [विधुक् ] विशेषेण द्रुह्यति = विध्रुक् । सर्वत्र अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'मुह - द्रुह - स्नुह - स्निहो वा' (२|१|८४) ह० घ० । 'ग-ड-द- बादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः स्ध्वोश्च प्रत्यये' ध्रु० । 'धुटस्तृतीयः' (२२१७६) घ०ग० । 'विरामे वा' (१।३।५१) ग० क० । (२१७७) दु० [ गोधुक् ] गो 'दुहींक् क्षरणे' (११२७) दुह् । गां दोग्धि = गोधुक् । [ कामधुक् ] कामं दोग्धि [ प्रधुक् ] प्रकर्षेण दोग्धि = कामधुक् । = प्रधुक् । सर्वत्र अनेन क्विप्प्र० । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । ‘भ्वादेर्दादेर्घः' (२।१।८३) ह० घ० । 'ग-ड-द-बादेश्चतुर्थान्तस्यैक०' (२।१।७७) दु० ध्रु० । 'धुटस्तृतीयः ' (२११७६) घ०ग० । 'विरामे वा' (१।३।५१) ग० क० । [ अश्वयुक् ] अश्व 'युपी योगे' (१४७६) युज् । 'युजिंच् समाधौ ' (१२५४) युज् । अश्वं युनक्ति युज्यते वा = अश्वयुक् । अनेन क्विप्प्र० । 'अप्रयोगीत् ' ( १ । १ । ३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङयाब्० ' (१।४।४५) सिलुक् । ‘च-ज: क-गम्' (२|१|८६) ज०ग० । 'विरामे वा' (१।३।५१) ग० क० । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy