SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ ९५ [शोकापनोदो धर्माचार्यः] शोकमपनदति = शोकापनोदः । 'कर्मणोऽण' (५।१७२) अणप्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । धर्मोपदेशक आचार्यः = धर्माचार्यः । शाकपार्थिवादिदर्शनात् मध्यमपदलोपी समासः । धर्माचार्य प्रथमा सि । [तुन्दपरिमार्ज आतुरः] तुन्दं परिमाटि । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'मजोऽस्य वृद्धिः' (४।३।४२) वृ० आ, आतुरः । [स्तम्बेरन्ता पक्षी] स्तम्बे रमते । 'णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । प्रथमा सि । 'ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोपः । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न०, पक्षी । [कर्णेजपिता मन्त्री] कर्णे जपति । 'णक-तृचौ' (५।१।४८) तृचप्र० →तृ । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । प्रथमा सि । 'ऋदुशनस्०' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२११२११४) ऋलोपः, मन्त्री ॥छ। मूलविभुजादयः ॥ ५।१।१४४ ॥ [मूलविभुजादयः] मूलविभुज आदिर्येषां ते = मूलविभुजादयः । [मूलविभुजो रथः] मूल 'भुजोंत् कौटिल्ये' (१३५१) भुज् । मूलानि विभुजति । अनेन कप्र० → अ, रथः । [उर्वीरुहो वृक्षः] 'रुहं जन्मनि' (९८८) रुह । उर्त्यां रोहति = उर्वीरुहः । अनेन कप्र० → अ । 'ङस्युक्तं कृता' (३।११४९) इति समासार्थमत्र पाठोऽन्यथा 'नाम्युपा०' (५।१५४) इति सिध्यति, एवं धर्मप्रद इत्यत्रापि । अत्र हि 'उपसर्गादातो डोऽश्यः' (५।१।५६) इति डे समासो न स्यात्, वृक्षः । [कुमुदं कैरवम् ] कु 'मुदि हर्षे' (७२६) मुद् । कौ-पृथिव्यां मोदते = कुमुदं कैरवम् । अनेन कप्र० → अ । [महीध्रः शैलः] मही 'धंग धारणे' (८८७) धृ । महीं धरति = महीध्रः । अनेन कप्र० अ, रत्वं च निपातः । [सरसिरुहं पद्मम् ] सरस् सप्तमी ङि । 'रुहं जन्मनि' (९८८) रुह । सरसि रोहतीति सरसिरुहम् । अनेन कप्र० → अ, पद्मम् । [नखमुचानि धनूंषि ] नख 'मुच्छंती मोक्षणे' (१३२०) मुच् । नखानि मुञ्चन्ति = नखमुचानि । अनेन कप्र० → अ । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । धनुस् प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'धुटां प्राक् (१।४।६६) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । ___ [काकगुहास्तिलाः] काक 'गुहौग् संवरणे' (९३५) गुह् । काकेभ्यो गूहनीयाः = काकगुहाः । अनेन कप्र० → अ । प्रथमा जस् । तिल प्रथमा जस् । _ [धर्मप्रदः] धर्म ‘डुदांग्क् दाने' (११३८) दा, प्रपूर्व० । धर्माय प्रददाति । अनेन कप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक् (४।३।९४) आलुक् । [कामप्रदः] काम 'डुदांग्क् दाने' (११३८) दा, प्रपूर्व० । कामाय प्रददाति = कामप्रदः । अनेन कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy