SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [कुलत्थः] *कुले तिष्ठति । अनेन कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । 'पृषोदरादयः' (३।२।१५५) सस्य तकारः । [द्विपः ] द्वाभ्यां पिबति । अनेन कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । [पादपः 1 पादैः पिबतीति पादपः । अनेन कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । [कच्छपः ] 'पां पाने' (२) पा । कच्छेन पिबति । अनेन कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । [अनेकपः] अनेकैर्बहुभिवारै(:) पिबति । अनेन कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । [नदीष्णः] 'ष्णांक शौचे' (१०६४) ष्णा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्ना । नद्यां स्नाति = नदीष्णः । नि-नद्याः स्नाते: कौशले (२।३।२०) इति षत्वम् ।। [आतपत्रम् ] आतप देंङ् (६०४) - 3ङ् पालने' (६०५) त्रै । 'आत् सन्ध्यक्षरस्य' (४।२।१) त्रा । आतपात् त्रायते । अनेन कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । [धर्मत्रम् ] घर्मात् त्रायते = धर्मत्रम् । अनेन कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । परत्वादयं 'शमो नाम्न्यः' (५।१११३४) इत्यप्रत्ययं बाधते[शंस्थो नाम कश्चित् ] शं तिष्ठतीति शंस्थः । अनेन कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । [शंस्थाः ] शं तिष्ठतीति शंस्थाः । असरूपत्वात् 'क्विप्' (५।१।१४८) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ॥छ।। शोकापनुद-तुन्दपरिमृज-स्तम्बेरम-कर्णेजपं प्रिया-ऽलस-हस्ति-सूचके || ५।१।१४३ ॥ [शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेजपम्] शोकापनुदश्च तुन्दपरिमृजश्च स्तम्बेरमश्च कर्णेजपश्च = शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेजपम् । [प्रियाऽलसहस्तिसूचके ] प्रियश्च अलसश्च हस्ती च सूचकश्च = प्रियाऽलसहस्तिसूचकम्, तस्मिन् । [शोकापनुदः प्रियः] शोक ‘णुदत् प्रेरणे' (१३७०) णुद् । 'पाठे धात्वादेो नः' (२।३।९७) नुद्, अपपूर्व० । शोकमपनुदति = शोकापनुदः । अनेन कप्र० → अ, प्रियः । पुत्रादिरानन्दकर एव उच्यते । यद्वा अन्नपानवस्त्रादिविषयसंपादनेन आत्माङ्गसङ्गनेन वा यः सुखमुत्पादयति स शोकम(काप)नुद उच्यते । [तुन्दपरिमृजोऽलसः] 'तुदीत् व्यथने' (१३१५) तुद् । के तुदति-आत्मानं पीडयतीति तुन्दम् । 'मृजौक् शुद्धौ' (१०९७) मृज्, परिपूर्व० । तुन्दमुदरं परिमाटि = तुन्दपरिमृजः । अनेन कप्र० । [स्तम्बेरमो हस्ती] 'स्तम्भू स्तम्भे' इति सौत्रो धातुः । स्तम्भते(?) (स्तभ्नाति) । 'तुम्ब-स्तम्बादयः' (उपा० ३२०) निपातः । सप्तमी ङि । 'रमि क्रीडायाम्' (९८९) रम् । स्तम्बे रमते । अनेन कप्र० → अ, हस्ती । _ [कर्णेजपः सूचकः ] कर्णे 'जप मानसे च' (३३८) जप् । कर्णे जपति = कर्णेजपः । अनेन कप्र० → अ, सूचकः । * श० महो०-कुलं भूलग्नं सत् तिष्ठति । श० म० न्या० - न एकेन पिबति । ॐ अभिधानचिन्तामणिनाममालायाम् - तूयते-पूर्यते = तुन्दम् । 'वृ-तु-कु-सुभ्यो नोऽन्तश्च' (उणा० २४०) दप्र० - नकारश्चान्तादेशः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy