SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [ अग्रेसर: ] अग्रे सरतीति अग्रेसरः । अनेन टप्र० अ । 'नामिनो गुणोऽक्ङिति ' ( ४|३|१) गु० अर् । अत्र सप्तम्यलुप् । एकारान्तमव्ययं वा । सूत्रनिपातनाद् वैकारः । तत्राग्रं सरति-अग्रेण वा सरति = अग्रेसरः । अनेन टप्र० अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० । 'रः पदान्ते० ' (१|३|५३) विसर्गः ॥छ | पूर्वात् कर्तुः || ५|१|१४१ ॥ [ पूर्वात् ] पूर्व पञ्चमी ङसि । [ कर्तुः ] कर्तृ पञ्चमी ङसि । 'ऋतो डुर्' (१।४।३७) डुर्० उर्० । 'डित्यन्त्यस्वरादेः ' (२।१।११४) ऋलोपः । = [ पूर्वसरः ] पूर्व 'सृ गतौ' (२५) सृ । पूर्वः सरति पूर्वसरः । अनेन टप्र० अ । 'नामिना गुणोऽक्ङिति ' (४।३।१) गु० अर् । पूर्वो भूत्वा सरतीत्यर्थः । कस्मात् पूर्वे (र्व) इति अविवक्षैव । [ पूर्वसरी ] पूर्वः सरति । अनेन टप्र० अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अणञेयेकण्-नञ्०' (२।४।२० ) ङी । ९३ = [ पूर्वसार: ] पूर्वं देशं सरति पूर्वसार: । 'कर्मणोऽण्' (५/१/७२ ) अण्प्र० अ । नामिनोऽकलि-हले ः ' (४।३।५१) वृ० आर् | प्रथमा सि । 'सो रुः' (२१।७२) स०र० । 'र: पदान्ते० ' (१।३।५३) विसर्ग: ॥छ|| स्था-पा-स्ना त्रः कः || ५|१|१४२ ॥ [ स्थापास्नात्रः ] स्थाश्च पाश्च स्नाश्च त्राश्च = तत् तस्मात् । 'लुगाऽऽतोऽनापः ' (२|१|१०७) आलुक् । [कः ] क प्रथमा सि । [ समस्थः] सम 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । 'षः सोऽष्ट्यै- ष्ठिव ष्वष्कः' (२३।९८) स्था । 'निमित्त नैमित्तिकस्याप्यभावः' (न्या० सं० वक्ष० ( १ ) / सूत्र (२९)) स्था । समे तिष्ठति । अनेन कप्र० अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । अ । 'इडेत् - पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । [ विषमस्थः] विषमे तिष्ठति । अनेन कप्र० [ कूटस्थः ] कूट-स्था । कूटे तिष्ठति । अनेन कप्र० अ । 'इडेत् पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । [ कपित्थ: ] कपि-स्था । कपौ तिष्ठति । अनेन कप्र० →>> अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । 'पृषोदरादय:' ( ३।२।१५५) सस्य तकारः । [दधित्थ: ] दधि-स्था । दधि (नि) तिष्ठति । अनेन कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । 'पृषोदरादयः' (३।२।१५५) सस्य तकारः । [ महित्थः ] +मही-स्था । मह्यां तिष्ठति । अनेन कप्र० अ । 'इडेत् - पुसि० ' ( ४।३।९४) आलुक् । 'पृषोदरादयः' (३।२।१५५) सस्य तकारः । 'यापो बहुलं नाम्नि ' (२|४|९९) ह्रस्वः । [ अश्वत्थः ] अश्वेषु तिष्ठति । अनेन कप्र० → अ । 'इडेत्-पुसि० ' ( ४।३।९४) आलुक् । 'पृषोदरादयः' ( ३ २ १५५) सस्य तकारः । 5 श० म० न्या० - पोऽस्मिन् तिष्ठन्ति । कपिरिव तिष्ठति । श० महो० -कपिस्तिष्ठत्यत्र । + श० म० न्या० इकारान्तो महिशब्दः । Jain Education International - For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy