SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ९२ [ चरे: ] चरि पञ्चमी ङसि । [ टः ] ट प्रथमा सि । [ कुरुचर: ] कुरु 'चर भक्षणे च' (४१०) चर् । कुरुषु चरति = कुरुचरः । अनेन टप्र० अ । बाहुलका अलुप् न भवति । चरेष्टः || ५|१|१३८ ॥ [ मद्रचर: ] मद्र 'चर भक्षणे च' (४१०) चर् । मद्रेषु चरति = मद्रचरः । अनेन टप्र० अ । बाहुलकात् अलुप् न भवति । [ वनेचरः ] वने चरति = वनेचरः । [निशाचरः ] निशायां चरति = निशाचरः । टकारो ङ्यर्थः श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ कुरुचरी ] कुरुषु चरतीति । अनेन टप्र० अ । 'अणञेयेकण् नञ् - स्नञ्- टिताम्' (२।४।२० ) ङी । 'अस्य यां लुक्' (२|४|८६ ) अलुक् । [ मद्रचरी ] मद्रेषु चरतीति । अनेन टप्र० (२४८६ ) अलुक् । = भिक्षा-सेना -ऽऽदायात् ॥ ५|१|१३९ ॥ [ भिक्षासेनाऽऽदायात् ] भिक्षा च सेना च आदायश्च = भिक्षासेनाऽऽदायम्, तस्मात् । अनाधारार्थ आरम्भः । [ भिक्षाचरः, भिक्षाचरी ] भिक्षां चरतीति भिक्षाचरः । अन्यत्र 'अणञेयेकण्०' (२।४।२०) ङी । [ सेनाचर: ] सेनां चरति - परीक्षते सेनाचरस्तापसव्यञ्जनः सेनया वा चरति । अनेन टप्र० -> अ । 'अणजेयेकण्०' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' [ आदायचर: ] आदाय - गृहीत्वा चरति = आदायचरः । अनेन टप्र० किमादायेत्यविवक्षैव ॥छ । Jain Education International पुरोऽग्रतोऽग्रे सर्तेः || ५|१|१४० ॥ [ पुरोऽग्रतोऽग्रेः ] पुरश्च अग्रतश्च अग्रश्च (अग्रे च ) = तत्, तस्मात् । [ सर्ते:] सर्ति पञ्चमी ङसि । [ पुरःसरः, पुरःसरी ] पुरस् 'सृ गतौ' (२५) सृ । पुरः सरतीति पुरःसरः । अन्यत्र 'अणञेयेकण्-नञ्-स्नञ्टिताम्' (२|४|२०) ङी । अ । अ । आदायं ( नं) कृत्वा चरतीत्यर्थः, [ अग्रतः सरः ] अग्र । अग्रेऽग्रतः । 'आद्यादिभ्यः' (७२।८४) तसुप्र० तस् । अग्रतः सरतीति अग्रतः सरः । अनेन टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy