SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । शमित्यव्ययं सुखे वर्तते । [शम्भवोऽर्हन् ] शम् 'भू सत्तायाम्' (१) भू । शं-सुखं तत्र भवतीति शम्भवोऽर्हन् । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [शङ्करः] शं-सुखं करोतीति शङ्करः । [शङ्गरः ] शम् ‘गृत् निगरणे' (१३३५) गृ । शं-सुखं गिरतीति शङ्गरः । [शंवरः] शम् ‘वृग्ट् वरणे' (१२९४) वृ । 'वृग्श् वरणे' (१५२३) व । शं-सुखं वृणोति-वृणाति वा । अनेन अप्र० । [शंवदः] शम् 'वद व्यक्तायां वाचि' (९९८) वद् । शं-सुखं वदतीति शंवदः । अनेन अप्र० । [स्वः पश्य ] स्वर् प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । पश्येति क्रिया अत्र च केचिदव्ययानां कर्मत्वं न मन्यन्ते, तन्मतमाक्षिप्याह-'स्वः पश्येत्यादिष्वव्ययानां कर्मत्वदर्शनात् शमि कर्मणि हेत्वादिष्वपि परत्वात् कृगष्टो अनेन अकारेण बाध्यते' । [शङ्करा नाम परिव्राजिका] शं-सुखं करोतीति शङ्करा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [शङ्करा नाम शकुनिका तच्छीला च] शं-सुखं करोतीति शङ्करा । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । अथवा शं-सुखं करोतीत्येवंशीला सा = शङ्करा । [शङ्करी जिनदीक्षा ] शं करोतीति शङ्करी । ‘हेतु-तच्छीला-ऽनुकूलेऽशब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्रपदात्' (५।१।१०३) टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक्, जिनदीक्षा ॥छ।। पार्वाऽऽदिभ्यः शीङः ॥ ५।१।१३५ ॥ [पार्वाऽऽदिभ्यः] पार्श्व आदिर्येषां ते = पार्वाऽऽदयः, तेभ्यः = पार्थाऽऽदिभ्यः । पञ्चमी भ्यस् । [पार्श्वशयः ] पार्श्व 'शीफू स्वप्ने' (११०५) शी । पार्वाभ्यां शेते । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [पृष्ठशयः] पृष्ठ-शी । पृष्ठेन शेते । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ उदरशयः] उदर-शी । उदरेण शेते । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [दिग्धसहशयः] दिग्धेन सह शेते । अनेन अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । विषसंसक्तकाण्डः दिग्ध उच्यते । अनाधारार्थ आरम्भः ॥छ।। 卐 श० म० न्या० - शं गृणातीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy