SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । अथ संज्ञायाम्[खगः पक्षी] खे-आकाशे गच्छतीति खगः पक्षी । [अगो वृक्षः पर्वतश्च ] न गच्छतीति अगो वृक्षः पर्वतश्च । [उरगः] उरसा गच्छतीति उरगः । सर्वत्र अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अन्त्यस्वरादिलोपः । 'पृषोदरादयः' (३।२।१५५) सलोपः । [पतगः पक्षी] पतो गच्छतीति पतगः पक्षी । [पन्नगः सर्पः] पद् चरणवाचको व्यञ्जनान्तः । पद्भ्यां न गच्छति, पन्नं गच्छति वा = पन्नगः सर्पः । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [आपगा नदी] आपमब्धि गच्छत्यापगा नदी । 'आत्' (२।४।१८) आप्प्र० → आ । [आशुगः शरः] आशु-शीघ्रं गच्छत्याशुगः शरः । [निम्नगा] निम्नं गच्छति । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'आत्' (२।४।१८) आप्प्र० → आ । [समुद्रगा] समुद्रं गच्छति । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'आत्' (२।४।१८) आप्प्र० → आ । [सततगा] सततं गच्छति । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'आत्' (२।४।१८) आप्प्र० → आ । [अगो वृषलः शीतेन] न गच्छतीति अगो वृषलः शीतेन । अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । अथ ख:- [सौतङ्गमिःमुनिः ] सुतं-सुतेन वा गच्छति-सुतङ्गमः । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । सुतङ्गमो मुनिर्यस्याऽसौ सौतङ्गमिः मुनिः । 'सुतङ्गमादेरिब्' (६।२।८५) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । प्रथमा सि । 'सो रुः स० → र० । [मितङ्गमोऽश्वः] मितं गच्छति । +[अमितङ्गमो हस्ती ] अमितं गच्छतीति । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [जनङ्गमश्चण्डालः ] जनं गच्छतीति जनङ्गमश्चण्डालः । [पूर्वङ्गमाः पन्थानः] पूर्वां गच्छन्तीति पूर्वङ्गमाः पन्थानः । अनेन खप्र० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः-हस्वश्च ।। [ हृदयङ्गमा वाचः] हृदयं गच्छन्तीति हृदयङ्गमा वाचः । [तुरङ्गमोऽश्वः ] त्वरां(तुरं) गच्छति । अनेन खप्र० → अ । 'खित्यनव्यया०' (३।२।१११) मोऽन्तः । अग्रे-[ भुजङ्गमः सर्पः, प्रवङ्गमः कपिः, प्लवङ्गमो भेकः, विहङ्गमो नभसङ्गमश्च पक्षी ] पूर्ववत् वाक्यं ज्ञेयम् । ॐ बृहवृत्तौ-पुत्रः । + बृहद्वृत्तौ - अमितंगमा हस्तिनी । * श० म० न्या० - तुरो गच्छतीति । Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy