SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ [पलितङ्करणं तैलम्] अपलितः पलितः क्रियतेऽनेन = पलितङ्करणं तैलम् । अनेन खनट्प्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । सि-अम् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [प्रियङ्करणं शीलम् ] अप्रियः प्रियः क्रियतेऽनेन = प्रियङ्करणं शीलम् । अनेन खनट्प्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । सि-अम् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [अन्धकरणः शोकः] अनन्धोऽन्धः क्रियतेऽनेन = अन्धङ्करणः शोकः । अनेन खनटप्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । सि । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [स्थूलङ्करणं दधि] अस्थूलः स्थूलः क्रियतेऽनेन = स्थूलङ्करणं दधि । अनेन खनटप्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । सि-अम् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [सुभगकरणं रूपम्] असुभगः सुभगः क्रियतेऽनेन = सुभगङ्करणं रूपम् । अनेन खनद्प्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३.१) गु० अर् । सि-अम् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [आढ्यङ्करणं वित्तम्] अनाढ्य आढ्यः क्रियतेऽनेन = आढ्यङ्करणं वित्तम् । अनेन खनटप्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । सि-अम् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः ।। [अनग्नङ्करणः पटः ] अननग्नोऽनग्नः क्रियतेऽनेन = अनग्नङ्करणः पटः । अनेन खनटप्र० → अन । 'नामिनो गुणोऽङिति' (४।३।१) गु० अर् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [सुनग्नङ्करणः पटः ] असुनग्नः सुनग्नः क्रियतेऽनेन = सुनग्नङ्करणः पटः । अनेन खनटप्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [अपलितङ्करणो रसः] अनपलितोऽपलितः क्रियतेऽनेन = अपलितङ्करणो रसः । अनेन खनट्प्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । [नग्नीकुर्वन्त्यनेन] अनग्ना नग्नाः कुर्वन्ति अनेन । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे च्विः' (७२।१२६) च्चिप्र० । 'ईश्च्वाववर्णस्याऽनव्ययस्य' (४।३।१११) ई । 'अप्रयोगीत्' (१२११३७) विलोपः । अत्र खनटप्रतिषेधसामर्थ्यादनडपि न भवति । न हि नग्नीकरणमित्यत्र अनट् - खनटो रूपे समासे स्त्रियां वा विशेषोऽस्ति ॥छा। भावे चा-ऽऽशिताद् भुवः खः ॥ ५।१।१३० ॥ [भावे] भाव सप्तमी ङि । [च] च प्रथमा सि । [आशितात् ] आशित पञ्चमी ङसि । [भुवः] भू पञ्चमी ङसि । 'धातोरिवर्णोवर्णस्येयुव् स्वरे प्रत्यये' (२।१।५०) उव् । [खः] ख प्रथमा सि । . [आशितम्भवो वर्तते भवतः] आइपूर्व०, 'अशश् भोजने' (१५५८) अश् । अश्नाति स्म । अविवक्षितकर्मकत्वात् 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।११) क्तप्र० → त । यदा आविना तदा अत एव निर्देशाद्दीर्घत्वम् । आशितस्य आशितेन तृप्तेन भूयते भवता = आशितम्भवः । अनेन खप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy