SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [प्रियम्भविष्णुः, प्रियम्भावुकः] अप्रियः प्रियो भवति । अनेन खिष्णुप्र० → इष्णु-खुकप्र० → उक । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'खित्यनव्यया०' (३।२।१११) मोऽन्तः । [अन्धम्भविष्णुः, अन्धम्भावुकः] अनन्धोऽन्धो भवति । अनेन खिष्णुप्र० → इष्णु-खुकप्र० → उक । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'खित्यनव्यया०' (३।२।१११) मोऽन्तः । ___[स्थूलम्भविष्णुः, स्थूलम्भावुकः] अस्थूलः स्थूलो भवति । अनेन खिष्णुप्र० → इष्णु-खुकप्र० → उक । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'खित्यनव्यया०' (३।२।१११) मोऽन्तः । [सुभगम्भविष्णुः, सुभगम्भावुकः] असुभगः सुभगो भवति । अनेन खिष्णुप्र० → इष्णु-खुकप्र० → उक । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'खित्यनव्यया०' (३।२।१११) मोऽन्तः । [आढ्यम्भविष्णुः, आढ्यम्भावुकः] अनाढ्य आढ्यो भवति । अनेन खिष्णुप्र० → इष्णु-खुकप्र० → उक । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव् (१।२।२४) अव् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । तदन्तेभ्यः- [अनग्नम्भविष्णुः, अनग्नम्भावुकः] अननग्नोऽनग्नो भवति । अनेन खिष्णुप्र० → इष्णु-खुकप्र० → उक । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'खित्यनव्यया०' (३।२।१११) मोऽन्तः । [सुनग्नम्भविष्णुः, सुनग्नम्भावुकः] असुनग्नः सुनग्नो भवति । अनेन खिष्णुप्र० → इष्णु-खुकप्र० → उक। 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'खित्यनव्यया०' (३।२।१११) मोऽन्तः । [आढ्यीभविता] अनाढ्य आढ्यो भवतीति आढ्यीभविता । 'णक-तृचौ' (५।१।४८) तृचप्र० → तृ० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे च्विः' (७।२।१२६) च्विप्र० । 'ईश्च्वाववर्णस्याऽनव्ययस्य' (४।३।१११) अस्य ई० । 'उपपदविधिषु तदन्तविधिरनाश्रित इति तदन्तग्रहणम्' ॥छ।। कृगः खनट् करणे ॥ ५।१।१२९ ॥ [कृगः] कृग् पञ्चमी ङसि । [खनट] खनट् प्रथमा सि । करण इति 'कर्तरि' (५।११३) इत्यस्याऽपवादः । [नग्नकरणं द्यूतम् ] अनग्नो नग्नः क्रियतेऽनेन = नग्नकरणं द्यूतम् । अनेन खनट्प्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । सि-अम् । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy