SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ असूर्योग्राद् दृशः || ५|१|१२६ ॥ [ असूर्योग्रात् ] असूर्यश्च उग्रश्च = असूर्योग्रम्, तस्मात् । [ दृश: ] दृश् पञ्चमी ङसि । [ असूर्यम्पश्या राजदाराः ] न सूर्य 'दृशुं प्रेक्षणे' (४९५) दृश् । सूर्यमपि न पश्यन्ति = असूर्यम्पश्या राजदाराः । अनेन खश्प्र० → अ । ‘कर्त्तर्यनद्द्भ्यः शव्' (३।४।७१) शव् । 'श्रौति - कृवु-धिवु-पा-घ्राध्मा-स्था-म्ना- दाम्-दृश्यर्त्तिशद-सदः शृ-कृ-धि-पिब-जिघ्र-धम- तिष्ठ- मन- यच्छ-पश्यर्च्छ - शीय- सीदम्' (४/२/१०८) "पश्य" आदेशः 1 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः । ८३ 'दृशिना संबद्धस्य नञः सूर्येण सहासामर्थ्येऽपि गमकत्वात् समासः', बाहुलकाद्वा समासः । [ उग्रम्पश्यः ] उग्रं पश्यति । अनेन खश्प्र० → अ । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कृवुधिवु-पा-घ्राध्मा-स्था-म्ना-दाम् - दृश्यर्त्ति-शद-सदः ०' (४।२।१०८) "पश्य" आदेशः । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः ॥छा इरम्मदः || ५|१|१२७ ॥ [ इरम्मद: ] इरम्मद अखण्डमिदम् । प्रथमा सि । 'सो रुः' (२।१।७२) स०र० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । [इरम्मदः] इरा 'मदैच् हर्षे' (१२३६) मद् । इरा - सुरा तया माद्यतीति इरम्मदः । अनेन खश्प्र० अ - श्याभावश्च निपात्यते । 'खित्यनव्ययाऽरुषो० ' ( ३।२।१११) मोऽन्तः - ह्रस्वश्च ||छ || नग्न-पलित-प्रिया-ऽन्ध-स्थूल - सुभगा - ऽऽढ्य - तदन्ताच्च्व्यर्थे ऽच्वेर्भुवः खिष्णु-खुकञ् ॥ ५।१।१२८ ॥ [ नग्नपलितप्रियाऽन्धस्थूलसुभगाऽऽढ्यतदन्तात् ] नग्नादयोऽन्ते यस्य तत् = अन्धश्च स्थूलश्च सुभगश्च आढ्यश्च तदन्तश्च = नग्नपलितप्रियाऽन्धस्थूलसुभगाऽऽढ्यतदन्तम्, तस्मात् । [ च्व्यर्थे ] च्वेरर्थः = च्व्यर्थस्तस्मिन् । [ अच्चे: ] न च्विः = अच्विः तस्मात् । [ भुवः ] भुव् पञ्चमी ङसि । [ खिष्णुखुकञ् ] खिष्णुश्च खुकञ् च = खिष्णुखुकञ् । [ नग्नम्भविष्णुः, नग्नम्भावुकः ] नग्न 'भू सत्तायाम् ' ( १ ) भू । अनग्नो नग्नो भवतीति नग्नम्भविष्णुः नग्नम्भावुकः । अनेन खिष्णुप्र० इष्णुखुकञ्प्र० उक । 'नामिनो गुणोऽक्ङिति' ( ४ | ३ | १) गु० ओ । ‘ओदौतोऽवाव्' (१।२।२४) अव् । 'नामिनोऽकलि - हले:' ( ४|३|५१) वृ० औ । 'ओदौतोऽवाव् ' (११२।२४) आव् । 'खित्यनव्यया०' (३।२।१११) मोऽन्तः । Jain Education International - [ पलितम्भविष्णुः, पलितम्भावुकः ] पलितानि अस्य सन्ति । 'अभ्रादिभ्यः' (७।२।४६) अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । अपलितः पलितो भवति । अनेन खिष्णुप्र इष्णु - खुकञ्प्र० → उक । 'नामिनो गुणोऽक्ङिति ' (४।३।१) गु० ओ । ‘ओदौतोऽवाव् ' (१।२।२४) अव् । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृ० औ । 'ओदौतोऽवाव्’ (१।२।२४) आव् । 'खित्यनव्यया० ' ( ३।२।१११) मोऽन्तः । For Private Personal Use Only तदन्तम् । नग्नश्च पलितश्च प्रियश्च www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy