SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ NNNN अषष्ठीतृतीयादन्याद् दोऽर्थे ।।३।२।११९।। [अषष्ठीतृतीयात् + षष्ठी च तृतीया च = षष्ठीतृतीये, न विद्यते षष्ठीतृतीये यत्राऽसौ, तस्मात् । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । [अन्यात्] अन्य पञ्चमी इसि । [अन्यदर्थः, अन्यार्थः] अन्य । अर्थ । अन्यश्चासौ अर्थश्च, अन्योऽर्थोऽस्येति वा । अनेन दोऽन्तः । [अन्यदर्थम्, अन्यार्थम्] अन्यस्मै इदम् । [अन्यदर्थः, अन्यार्थः] अन्यस्मिन्नर्थः । अनेन सर्वत्र दोऽन्तः । [अन्यार्थः] अन्यस्याऽर्थः । [अन्यार्थः] अन्येनाऽर्थः ।।छ।। आशीराशा-5ऽस्थिता-ऽऽस्थोत्सुकोति-रागे ॥३।२।१२०।। [आशीराशाऽऽस्थिताऽऽस्थोत्सुकोतिरागे] आशीश्च आशा च आस्थितश्च आस्था च उत्सुकश्च ऊतिश्च रागश्च = आशीराशाऽऽस्थिताऽऽस्थोत्सुकोतिरागम्, तस्मिन् । [अन्यदाशी:] 'शासूक् अनुशिष्टौ' (१०९५) शास्, आड्यूर्व० । आशासनं = आशीः । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प० । 'आडः' (४।४।१२०) आस्० → इस्० । 'अप्रयोगीत्' (१1१।३७) क्विप्लोपः । 'सो रुः' (२।१।७२) स० → र० । ‘पदान्ते' (२।१।६४) दीर्घः । अन्या आशीः । [अन्यदाशा] + अन्या आशा । [अन्यदास्थितः]* अन्यमास्थितः । 'ष्ठ गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याऽप्यभावः' (न्या० स० वक्ष० (१) | सूत्र (२९)) स्था, आड्यूर्व० । आतिष्ठते स्म । 'श्लिषशीङ्-स्था-ऽऽस-वस-जन-रुह-जू-भजेः क्तः' (५।१।९) क्तप्र० → त । 'दो-सो-मा-स्थ इ:' (४।४।११) आ० → इ० । [अन्यदास्था] आस्थानमास्था । 'उपसर्गादातः' (५।३।११०) अप्र० । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । 'आत्' (२।४।१८) आप्प० → आ । ★ अन्या आस्था ।। [अन्यदुत्सुकः] उत्-सु । उद्गतं सुष्ठु मनो यस्याऽसौ, अन्यस्मिन् उत्सुकः । [अन्यदूतिः] अवनं = ऊतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'मव्यवि-श्रिवि-ज्वरि-त्वरेरुपान्त्येन' (४।१।१०९) इत्यादिना अव० →ऊट । अन्या ऊतिः । [अन्यद्रागः] 'रजी रागे' (८९६) रञ् । रज्यतेऽनेन । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'घञि भावकरणे' (४।२।५२) नस्य लोपः । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज० → ग० । अन्यत्र रागः । अनेन दोऽन्तः । P. + षष्ठी च तृतीया च = षष्ठीतृतीयम्, न षष्ठीतृतीयम् = अषष्ठीतृतीयम्, तस्मात् । P.卐 अन्या चासौ आशा च । P*अन्या चासौ आस्था च । P. * अन्यः चासौ आस्थितश्च । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy