________________
श्रीसिद्भहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
[अन्याशीः] अन्यस्य आशीः । [अन्यास्थितः] अन्येन आस्थितः ॥छ।।
ईय - कारके ॥३।२।१२१॥ [ईयकारके] ईयश्च कारकश्च = ईयकारकम्, तस्मिन् । [अन्यदीयः] अन्य । अन्यस्याऽयम् । 'गहादिभ्यः' (६।३।६३) ईयप्र० । [अन्यदीयम अन्यस्मै हितम् । 'तस्मै हिते' (७११३५) ईयप्र० । अनेन दोऽन्तः । [अन्यत्कारकः] अन्य-कारक । अन्यस्याऽन्येन वा कारकः । अनेन दोऽन्तः । [अन्यत्कारिका] अन्यस्याऽन्येन वा कारिका । अनेन दोऽन्तः ।।छ।।
सर्वादि-विष्वग्-देवाड्डद्रिः क्व्यञ्चौ ॥३।२।१२२॥ [सर्वादिविष्वगदेवात्] सर्व आदिर्यस्याऽसौ सर्वादिः, सर्वादिश्च विष्वग् च देवश्च = सर्वादिविष्वग्देवम्, तस्मात् । [डद्रिः] ड् चासौ अद्रिश्च । क्वियञ्चौक क्वि चासौ अञ्चिश्च = क्व्यञ्चिस्तस्मिन् ।
[सर्वधङ सर्व । 'अशू गतौ च' (१०५) अञ्च् । सर्वमञ्चतीति । 'क्विप्' (५।१।१४८) क्विप्प० । अनेन डदिरद्रि । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलोपः । प्र० सि । 'अचः' (१।४।६९) नोऽन्तः । 'अशोऽनर्चायाम्' (४।२।४६) नलोपः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१९८९) चलोपः । 'युजञ्च-क्रुञ्चो नो ङः' (२।१७१) न० → ड० ।
[सर्वाञ्चौ] सर्वमञ्चत इति । 'क्विप' (५।११४८) क्विप्र० । अनेन डदिरद्रि । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलोपः । प्र० औ । 'अचः' (१।४।६९) नोऽन्तः । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः ।
[सर्वध्रुञ्चः] सर्वमश्चन्तीति । 'क्विप्' (५।१।१४८) क्विप्प० । अनेन डदिरद्रि । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलोपः । प्र० जस् । 'अचः' (१।४।६९) नोऽन्तः । 'अशोऽनर्चायाम्' (४।२।४६) नलोपः ।
[सर्वद्रीचः] सर्वमञ्चन्तीति । 'क्विप्' (५।१।१४८) क्विप्प० । अनेन डदिरद्रि । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलोपः । 'द्वि०शस् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्० → ८० - पूर्वस्य दीर्घः ।
[सर्वद्रीचा] सर्वमञ्चतीति । 'क्विप्' (५1१1१४८) क्विप्प० । अनेन डदिरदि । 'डित्यन्त्यस्वरादेः' (२191११४) अलोपः । तृ० टा । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्० → च० - पूर्वस्य दीर्घः ।
[सर्वद्रीची] सर्वामञ्चतीति । 'क्विप्' (५1१1१४८) क्विप्प० । अनेन डदिरद्रि । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलोपः । डी → ई । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । 'अच्च प्राग् दीर्घश्च' (२।१।१०४) अच्० → च्० - पूर्वस्य दीर्घः ।
तङ तद् । 'अशं गतौ च' (१०५) अञ्च् । तमञ्चतीति । P. क्विश्चासौ अशुश्च = क्व्यञ्जु, तस्मिन् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org