________________
अथ तृतीयाध्यायस्य द्वितीयः पाद: ।
NAMANNNNNNNNNNNNNNNNowwwwwwwwwwwwwwwwwwwwwwwww
[आढ्यम्भावुकः] आढ्य । 'भू सत्तायाम्' (१) भू । अनाढ्य आढ्यो भवतीति । 'नग्न-पलित-प्रिया-ऽम्ध०' (५।१।१२८) खुकञ्प्र० → उक । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव' (१।२।२४) आव् । अनेन मोऽन्तः ।
[सुभगङ्करणम्] सुभग । 'डुकंग करणे' (८८८) कृ । असुभगः सुभगः क्रियतेऽनेन । 'कृगः खनट करणे' (५।१।१२९) खनटप्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । अनेन मोऽन्तः ।
[आशितम्भवो वर्तते] 'अशश् भोजने' (१५५८) अश् । अश्नाति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । क्ते सूत्रे आशित इति निर्देशात् दीर्घत्वं च, आयूर्वाद्वा अविवक्षितकर्मकात् 'भू सत्तायाम्' (१) भू । आशितेन तृप्तेन भूयते । 'भावे चा-ऽऽशिताद् भुवः खः' (५।११३०) खप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव । अनेन मोऽन्तः ।
[मितङ्गमः] मित । अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्लुं गतौ' (३९६) गम् । मितं गच्छतीति । 'नाम्नो गमः खड्-डी च०' (५।११३१) खड्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अमलोपः । अनेन मोऽन्तः ।
[विहङ्गमः] विहायस् । 'गम्लूं गतौ' (३९६) गम् । विहायसा गच्छतीति । 'नाम्नो गमः खड्-डौ च विहायसस्तु विहः' (५।१।१३१) खड्प्र० → अ-विहायस्० → “विह'' आदेशः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अम्लोपः । अनेन मोऽन्तः ।
[पतङ्गः] पत । 'गम्लुं गतौ' (३९६) गम् । पतं गच्छतीति । 'नाम्नो गमः खड्-डौ च०' (५।११३१) खड्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१११४) अम्लोपः । अनेन मोऽन्तः ।
[कालिंमन्या] काल । 'भाज-गोण-नाग-स्थल-कुण्ड-काल-कुश-कामुक-कट-कबरात्०' (२।४।३०) डी । कालीमात्मानं मन्यते । 'कर्तुः खश्' (५।१।११७) खशप्र० → अ । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । अनेन मोऽन्तः-हस्वश्च ।
[हरिणिंमन्या] हरित । श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च (२१४।३६) डी →ई - तस्य न० । 'रघुवर्णान्नो ण०' (२।३।६३) न० → ण । हरिणीमात्मानं मन्यते । 'कर्तुः खश्' (५।१।११७) खशप्र० → अ । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य । अनेन मोऽन्तः - ह्रस्वश्च ।
[अरुंतुदः] अरुस् । 'तुदींत् व्यथने' (१३१५) तुद् । अरुः तुदतीति । 'बहु-विध्वरुस्तिलात् तुदः' (५।१।१२४) खश्प्र० → अ । अनेन मोऽन्तः । 'संयोगस्यादौ स्कोर्लुक' (२।१।८८) सलोपः ।
[पण्डितमानी] पण्डितमात्मानं मन्यते । 'मन्याण्णिन्' (५।१।११६) णिन्प्र० → इन् । 'ज्णिति' (४।३५०) उपान्त्यवृद्धिः । प्र०सि० । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२११९१) नलोपः ।
[सुभगमानी] सुभगमात्मानं मन्यते । 'मन्याण्णिन्' (५1१1११६) णिन्प० → इन् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । प्र० सि । 'इन्-हन-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घङ्याब' (१।४।४५) सिलोपः । 'नाम्नो नोऽनह्नः' (२११९१) नलोपः ।
[दोषामन्यमहः] दोषा आत्मानं मन्यते । 'कर्तुः खश्' (५1१1११७) खशप्र० → अ । 'दिवादे: श्यः' (३।४।७२) → य । ‘पदान्ते' (२।१।६४) दीर्घः ।
श्यप्र०
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org