________________
८० AmmaNamayanawww
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
[दिवामन्या रात्रिः] दिवसमात्मानं मन्यते । 'कर्तुः खश्' (५।१।११७) खशप्र० → अ । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । ‘पदान्ते' (२१११६४) दीर्घः ।
[कूलमुद्रुजः] कूल । 'रुजोत् भङ्गे' (१३५०) रुज्, उपूर्व० । कूलमुद्रुजति । 'कूलादुद्रुजोद्वहः' (५।१।१२२) खश्प्र० → अ । अनेन मोऽन्तः ।
[कूलमुद्वहः] कूल । 'वहीं प्रापणे' (९९६) वह्, उद्पूर्व० । कूलमुद्वहति । 'कूलादुद्रुजोद्वहः' (५।१।१२२) खश्प्र० → अ । अनेन मोऽन्तः ।।छ।।
सत्या-ऽगदा-ऽस्तोः कारे ॥३।२।११२॥ [सत्याऽगदाऽस्तोः] सत्यश्च अगदश्च अस्तुश्च = सत्याऽगदाऽस्तु,॥ तस्य ।
[सत्यङ्कारः] सत्य । 'डुकंग करणे' (८८८) कृ । सत्यं करोति । 'कर्मणोऽण' (५1१७२) अणप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) आर् । सत्यस्य कार इति वा ।
[अगदङ्कारः] अगद 'डुकंग करणे' (८८८) कृ । अगदं करोति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) आर् ।
[अस्लुङ्कारः] अस्तु । 'डुकंग करणे' (८८८) कृ । अस्तु करोतीति । 'कर्मणोऽण' (५।१।७२) अणप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) आर् ।
अस्तुशब्दनिपातः क्रियापतिरूपकोऽङ्गीकारे वर्त्तते ।।।।
लोकम्पृण-मध्यन्दिना-ऽनभ्याशमित्यम् ॥३।२।११३॥
[लोकम्पृणमध्यन्दिनाऽनभ्याशमित्यम लोकम्पृणश्च मध्यन्दिनं च अनभ्याशमित्यं च = लोकम्पृणमध्यन्दिनाऽनभ्याशमित्यम् ।
[लोकम्पृणः] लोक । 'पृणत् प्रीणने' (१३६०) पृण् । लोकं पृणतीति । 'मूलविभुजादयः' (५।१।१४४) कप्र० → अ । पृणतीति । 'नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः' (५।१।५४) कप्र० → अ । लोकस्य पृणः वा ।
[मध्यन्दिनम् मध्यं दिनस्य । 'सायाहुनादयः' (३।१५३) अंशितत्पुरुषः । मध्यं च तद् दिनं च वा ।
[अनभ्याशमित्यम्] 'अशश् भोजने' (१५५८) अश्, अभिपूर्व० । अभ्यशनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अभ्यासं(शं) - निकटम् । न अभ्यासं(शं) = अनभ्यासं(शम्) 'अन् स्वरे' (३।२।१२९) अन् । 'इंण्क् गतौ' (१०७५) इ । ईयते = इत्यम् । 'दृ-वृग्-स्तु-जुषेति-शासः' (५।१।४०) क्यप्प्र० → य । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । अनेन मोऽन्तः सर्वत्र । अनभ्यासं(शं) दूरमित्यं गन्तव्यमस्य अनभ्यासे(शे)नेत्योऽनभ्यासं(शं) दूरेण परिहर्त्तव्यः, दूरेण प्राप्यो न त्वन्तिकेनेत्यर्थः ।
[लोकंप्रिणः] लोक । 'प्रींगश् तृप्ति-कान्त्योः ' (१५१०) प्री । प्रीणन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० → इ । 'धूग्-प्रीगोर्नः' (४।२।१८) नोऽन्तः । प्रीणयतीति । 'अच्' (५।१।४९) अच्प्र० → अ । ‘णेरनिटि' (४।३।८३) णिग्लोपः । मतान्तरे ह्रस्वः । लोकस्य प्रीणः = लोकप्रिणः, ततो हुस्वः - अनेन मोऽन्तः । लोकस्य प्रीणक इत्यर्थः ।।छ।।
P.तस्मात् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org