SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । खित्यनव्यया-ऽरुषो मोऽन्तो हुस्वश्च ।।३।२।१११॥ [खिति] ख् इदनुबन्धो यस्याऽसौ खित्, तस्मिन् । [अनव्ययाऽरुषोः] न अव्ययोऽनव्ययः । अनव्ययश्च अरुस् च = अनव्ययाऽरुषौ, तयोः = अनव्ययाऽरुषोः, षष्ठी ओस् । 'नाम्यन्तस्था०' (२।३।१५) स० → प० । [ज्ञमन्यः] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । जानाति सर्वशास्त्रार्थमिति । 'नाम्युपान्त्य-प्री-कू-ग-ज्ञः कः' (५।११५४) कप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । बुधिं (१२६२)- 'मनिंच ज्ञाने' (१२६३) मन् । ज्ञमात्मानं मन्यते । ‘कर्तुः खश्' (५1१1११७) खश्प० → अ | 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । अनेन मोऽन्तः । प्रथमा सि । [पण्डितंमन्यः] पण्डितमात्मानं मन्यते । ‘कर्तुः खश्' (५।१।११७) खश्प० → अ । बुधिं (१२६२) - ‘मनिंच ज्ञाने'.(१२६३) मन् । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । अनेन मोऽन्तः । प्रथमा सि । [क्ष्ममन्यः] क्ष्मा । बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । मामात्मानं मन्यते । 'कर्तुः खश्' (५।१1११७) खश्प० → अ । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । अनेन मोऽन्तः-ह्रस्वश्च । प्रथमा सि । [खट्वंमन्या] खट्वा । बुधिं (१२६२) - ‘मनिंच् ज्ञाने' (१२६३) मन् । खट्वामात्मानं मन्यते । ‘कर्तुः खश्' (५।१११७) खशप्र० → अ । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । अनेन मोऽन्तः-हस्वश्च । [महंमन्यः] महत् । बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । महान्तमात्मानं मन्यते । 'जातीयैकार्थेऽच्चेः' (३।२७०) डाप्र० → आ । 'डित्यन्त्यस्वरादेः' (२११११४) अत्लोपः । अनेन मोऽन्तः - ह्रस्वश्च । [रात्रिमन्यमहः] रात्रिमात्मानं मन्यते । अनेन मोऽन्तः, दिनम् । [दुर्णिमन्यः] द्रुणी-कच्छपी । द्रुणीमात्मानं मन्यते । [ग्रामणिमन्यः] ग्रामणी । बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । ग्रामण्यमात्मानं मन्यते । 'कर्तुः खश्' (५।१।११७) खश्प्र० → अ । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । अनेन मोऽन्तः-हूस्वश्च । [वधुंमन्यः] वधूमात्मानं मन्यते । 'कर्तुः खश्' (५1१1११७) खशप्र० → अ । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य । अनेन मोऽन्तः-हूस्वश्च । [खलपुंमन्यः] खलपू । बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । खलप्वमात्मानं मन्यते । 'कर्तुः खश्' (५।१।११७) खश्प्र० → अ । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य । अनेन मोऽन्तः-ह्रस्वश्च । [क्षेमडुरः] क्षेम । 'डुकंग करणे' (८८८) कृ । क्षेमं करोतीति । क्षेम-प्रिय-मद्र-भद्रात् खा-ऽण्' (५।१।१०५) खप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन मोऽन्तः । [मेघङ्करः] मेघ । 'डुकंग करणे' (८८८) कृ । मेघं करोतीति । 'मेघर्त्ति-भया-ऽभयात् खः' (५।१।१०६) खप्र० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन मोऽन्तः । , [आढ्यम्भविष्णुः] आढ्य । 'भू सत्तायाम्' (१) भू । अनाढ्य आढ्यो भवतीति । 'नग्न-पलित-प्रिया-ऽन्ध-स्थूलसुभगा-ऽऽढ्य-तदन्ताऽच्यर्थेऽच्वेर्भुवः खिष्णु-खुको' (५।११२८) खिष्णुप्र० → इष्णु । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव' (११२।२४) अव । अनेन मोऽन्तः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy