SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ द्व्यन्तरनवर्णोपसर्गादप ईप् ।।३।२।१०९ ॥ [द्व्यन्तरनवर्णोपसर्गात्] न अवर्णोऽनवर्ण: । 'अन् स्वरे' (३।२।१२९) अन् । अनवर्णश्चासावुपसर्गश्च = अनवर्णोपसर्गः । द्विश्च अन्तश्च अनवर्णोपसर्गश्च द्व्यन्तरनवर्णोपसर्गम्, तस्मात् । = [अपः ] अप् षष्ठी डस् । [द्वीपम्] द्वि । अप् । द्विधा गता आपो यस्मिन् तत् । [अन्तरीपम् ] अन्तर् । अप् । अन्तर्गता आपोऽस्मिन् तत् । [नीपम्] नि । अप् । निवृत्ता आपोऽस्मिन् तत् । [प्रतीपम् ] प्रति । अप् । प्रतिगता आपोऽस्मिन् तत् । [ समीपम् ] सम् । अप् । सङ्गता आपोऽस्मिन् तत् । [ अन्वीपम् ] अनु । अप् । अनुगता आपोऽस्मिन् तत् । [वीपम् ] वि । अप् । विगता आपोऽस्मिन् तत् । अनेन अप्०ई० । 'ऋक् - पूः पथ्यपोऽत्' (७|३ |७६) अत्समासान्तः । सि-अम् । [ स्वापः ] शोभना आपः । प्र० जस् । 'अपः ' (१।४।८८ ) दीर्घः । [अत्यापः ] पूजिता आपः । प्र० जस् । 'अपः ' (१।४।८८) दीर्घः । स्वती पूजायां नोपसर्गौ । [प्रापम् ] । अप् । (१) प्रगता आपो यत्र तत् । [परापम् ] पर ( रा ) । अप् । (२) पर ( रा ) गता आपो यत्र तत् । ऋक् पूः पथ्यपोऽत्' (७।३।७६) अत्समासान्तः । [समापो देवयजनम् ] संश्लिष्टा - आगता आपोऽस्मिन् । 'ऋक् - पूः - पथ्यपोऽत्' (७।३।७६) अत्समासान्तः ॥ छ || अनोर्देशे उप् || ३ |२| ११०॥ Jain Education International ७७ [ अनोः] अनु पञ्चमी इसि । [देशे] देश सप्तमी ङि । [ अनूपो देश: ] (२) अनुगता आपोऽस्मिन् । 'ऋक्-पूः - पथ्यपोऽत्' (७।३।७६) अत्समासान्तः । अनेन उप्० । [ अन्वीपं वनम् ] अनुगता आपो यत्र वने तत् । 'ऋक्-पूः पथ्यपोऽत्' (७।३।७६) अत्समासान्तः । द्व्यन्तरनवर्णोपसर्गादप ईप्' (३।२।१०९) ईप्० । [कूपः ]* कु-पृथिवीयुता आपोऽस्मिन् सः । [ सूपः ] + पूजिता आपोऽस्मिन् सः । पृषोदरादयः' ( ३।२।१५५ ) निपात्यते ॥छ। P. द्वाभ्यां गता, द्विधा गता वा आपो यत्र तत् = द्वीपम् । 'ऋक्-पूः-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः । P. ( 9 ) प्रकृष्टा आपो यत्र तत् । P. ( २ ) परावृत्ता आपो यत्र तत् । P. (३) अनुरूपा आपो यत्र सः । P. * श० म० न्या० - कु = ईषत् आपो यत्र सः । + श० म० न्या० - सुपेया आपो यत्र सः सूपः । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy