________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
७५
[उदवाहनः] वहीं प्रापणे (९९६) वह् | वहन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । वाहयतीति । 'नन्द्यादिभ्योऽनः' (५।११५२) अनप्र० । णेरनिटि (४।३।८३) णिगलोपः । ॥ उदकस्य वाहनः । अनेन "उंद" आदेशः ।।छ।।
वैकव्यञ्जने पूर्ये ॥३।२।१०५॥
[वा] वा प्रथमा सि ।
[एकव्यञ्जने] एकं च तद् व्यञ्जनं च = एकव्यञ्जनम्, तस्मिन् । [उदकुम्भः, उदककुम्भः] उदकस्य पूरणं कुम्भः । [उदघटः, उदकघटः] उदकस्य पूरणं घटः ।। [उदपात्रम्, उदकपात्रम्] उदकस्य पूरणं पात्रम् । अनेन "उद' आदेशः । [उदकामत्रम्] उदकस्यामत्रं = भाजनम् । [उदकस्थालम् उदकस्य पूरणं स्थालम् । [उदकपर्वतः] उदकेनोपलक्षितः पर्वतः । [उदकदेशः] उदकेनोपलक्षितो देशः ।।छ।।
मन्थौदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध-गाहे वा ॥३।२।१०६॥ [मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहे] मन्थश्च ओदनश्च सक्तुश्च बिन्दुश्च वजं च भारश्च हारश्च वीवधश्च गाहश्च = मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहम्, तस्मिन् ।
[उदमन्थः, उदकमन्थः] + उदकस्य मन्थः । [उदौदनः, उदकौदनः] उदकेनोपसिक्त ओदनः । [उदसक्तुः, उदकसक्तुः] उदकेनोपसिक्तः सक्तुः । [उदबिन्दुः, उदकबिन्दुः] उदकस्य बिन्दुः । [उदवज्रः, उदकवज्रः] उदकं वज्र इव । 'उपमेयं व्याघाद्यैः साम्यानुक्तौ' (३।१।१०२) समासः । [उदभारः, उदकभारः] * उदकस्य भारः-समूहः । [उदहारः, उदकहारः] 0 उदकस्य हारः ।
[उदवीवधः, उदकवीवधः] विशेषेण वध्यत इति । 'भावा-ऽकोंः ' (५।३।१८) घञ्प० । 'न जन-वधः' (४।३।५४) इति दीर्घत्वं न भवति । यद्वा हननं = वधः । 'हनो वा वध् च' (५।३।४६) अल्प्र० - वधादेशश्च । विशिष्टो वधो यत्राऽसौ ।
卐 मध्यमवृत्ती - श० म० न्या० च-उदकं वाहनमस्य । P. वज्रश्च । P+ उदकेन मथ्यत इति । 'भावा-5कत्रोंः' (५।३।१८) घञ्प्र० । 'कारकं कृता' (३।११६८) समासः । P. * उदकं बिभर्तीति । 'कर्मणोऽण्' (५।१।७२) अण्प० । P. 0 उदकं हरतीति । 'कर्मणोऽण्' (५११७२) अण्प० ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal use only
www.jainelibrary.org