________________
७४
अनेन शीर्ष० सर्वत्र ।
[स्थौलशीर्षिः ] स्थूलं शिरोऽस्याऽसौ स्थूलशिराः । स्थूलशिरसोऽपत्यम् । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० → इ । अनेन शीर्ष० । 'अवर्णवर्णस्य' (७।४ । ६८) अवर्णस्य लोपः ।
[पैलुशीर्षिः ] पीलु शिर इव शिरोऽस्याऽसौ पीलुशिराः । पीलुशिरसोऽपत्यम् । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० इ । अनेन शीर्ष० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लोपः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[मार्गशीर्षी पौर्णमासी] मृगशिरस् । मृगशिरसा चन्द्रयुक्तेन युक्ता पौर्णमासी । 'चन्द्रयुक्तात् काले० ' (६।२।६) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । 'अवर्णवर्णस्य' (७|४|६८) अलोपः । 'अणञेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२० ) ङी । 'अस्य ड्यां लुक्' (२१४१८६ ) अलोपः ।
[स्थौलशीर्षम् ] स्थूलशिरस इदम् । 'तस्येदम्' (६।३।१६०) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः औ । अनेन शीर्ष आदेशः ।
[शैर्षम् ] शिरस् । शिरसि कृतम् । तत्र कृत- लब्ध- क्रीत- सम्भूते' (६।३।९४) अण्प्र० अ । अनेन शीर्ष० । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' ( ७१४ १६८) अलोपः ।
[ शीर्षक: ] शिरस् । शिरसा तरति । 'नौ- द्विस्वरादिकः' (६।४।१० ) इकप्र० । अनेन शीर्ष० । 'अवर्णवर्णस्य' ( ७१४ १६८) अलोपः ।
[शिरस्कल्पः] ईषदपरिसमाप्तं शिरः । ' अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर् ( ७।३।११) कल्पपुप्र०
कल्प ।
[ स्थूलशिरयति] स्थूलशिरसमाचष्टे । 'णिज्बहुलं नाम्नः कृगादिषु' ( ३।४।४२) णिच्प्र० इ । ' त्रन्त्यस्वरादेः ' (७।४।४३) अस्लोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् ।
[शीर्षच्छेद्यं परिच्छिद्य ] शीर्षच्छेद । परिच्छेद । शीर्षच्छेदमर्हति । परि= समन्तात् छेदमर्हति । ' शीर्षच्छेदाद् यो वा' ( ६ |४|१८४) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । । छ । ।
उदकस्योदः पेषं-धि- वास- वाहने ||३१२११०४॥
[ उदकस्य ] उदक षष्ठी डस् ।
[उदः] उद प्रथमा सि ।
[पेषंधिवासवाहने] पेषं च धिश्च वासश्व वाहनं च = पेषंधिवासवाहनम्, तस्मिन् ।
[ उदपेषं पिनष्टि तगरम् ] उदक 'पिष्लृप् संचूर्णने ' (१४९३ ) पिष् । उदकेन पिनष्टि । स्व-स्नेहनार्थात् पुष - पिषः (५/४/६५ ) णम्प्र० → अम् । लघोरुपान्त्यस्य' (४।३।४) गु० ए । अनेन "उद" आदेशः ।
[उदधिः घटः] उदकं धीयतेऽस्मिन्निति । 'व्याप्यादाधारे' (५।३।८८) किप्र० इ । 'इडेत्-पुसि चाऽऽतो लुक् ( ४१३/१४) आलोपः । अनेन "उद" आदेशः ।
[उदवासः] उदकस्य वासः = उदवासः
अनेन "उद" आदेश: ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org