SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ [नस्यम् ] नासिकायै हितम् । 'प्राण्यङ्ग-रथ- खल-तिल - यव- वृष-ब्रह्म- माषाद् य:' ( ७।१।३७ ) यप्र० । नासिकायां भवं वा । 'दिगादिदेहांशाद् यः' ( ६ ३ | १२४ ) यप्र० । अनेन नस् । [ नासिक्यं नगरम् ] नासिका । नासिकाऽस्त्यस्मिन् तत् । नासिकाया निवासम् । नासिकाया अदूरभवम् । नासिकया निर्वृत्तम् । ‘सुपन्थ्यादेर्व्यः' (६।२।८४) ञ्यप्र०य । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । [नासिक्य वर्णः ] नासिकायां भवं ( वः) । 'दिगादि०' (६ | ३ | १२४) यप्र० । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । छ । । शिरसः शीर्षन् || ३ |२| १०१॥ [शिरसः ] शिरस् षष्ठी डस् । [ शीर्षन् ] शीर्षन् प्रथमा सि । [शीर्षण्यः स्वरः ] शिरस् । शिरसि भवः । दिगादिदेहांशाद् य:' ( ६ । ३।१२४) यप्र० । अनेन शीर्षन्० । 'रवर्णान्नो ण०' (२।३।६३) न० ० । ७३ [ शीर्षण्यं तैलम् ] शिरसे हितम् । 'प्राण्यङ्ग-रथ- खल० ' ( ७।१।३७) यप्र० । अनेन शीर्षन् । 'रष्टवर्णान्नो ण० ' (२।३।६३) न० ० । [शिरस्तः ] शिरसः । ' अहीय- रुहोऽपादाने' (७।२।८८) तस्प्र० । [सशिरस्कः ] सह शिरसा वर्त्तत इति । 'सहस्य सोऽन्यार्थे' ( ३।२।१४३) सह ( ७।३।१७५ ) कच्प्र० क । सो रुः' (२।१।७२) स०र० । 'प्रत्यये' (२।३।६) रस्य स० । [शिरस्यति ] शिर इच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र०य । [हास्तिशीर्ष्या] हस्तिन् । शिरस् । हस्तिनः शिर इव शिरोऽस्याऽसौ हस्तिशिराः । हस्तिशिरसोऽपत्यम् । ‘बाह्वादिभ्यो गोत्रे' (६।१।३२ ) इञ्प्र० इ । 'शीर्षः स्वरे तद्धिते' ( ३।२।१०३) शिरस्० शीर्ष आदेशः । 'अनार्षे वृद्धेऽणिञो बहुस्वर-गुरूपान्त्यस्या- ऽन्तस्य ष्यः' (२।४।७८) इष्य आदेशः । ' वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । 'आत्’ (२।४।१८) आप्प्र० आ । 'अवर्णे० ' (७।४।६८) शीर्षशब्दाकारस्य लोपः । अग्रेतने स्थाने ष्य आदेशो न स्यात् । [पैलुशीर्ष्या ] पीलु शिरोऽस्याऽसौ पीलुशिराः । पीलुशिरसोऽपत्यम् । 'बाह्वादिभ्यो गोत्रे' (६।१।३२ ) इञ्प्र० इ । 'शीर्षः स्वरे तद्धिते' (३।२।१०३) शीर्ष आदेशः । 'अनार्षे वृद्धेऽणिजो बहुस्वर०' (२।४।७८) य० । 'आत्' (२।४।१८) आ । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धि: । 'अवर्णवर्णस्य' (७।४।६८) शीर्षशब्दाकारस्य लोपः ॥ छ || आप्प्र० Jain Education International सभावः । 'शेषाद् वा ' केशे वा ||३|२| १०२ ॥ [शीर्षण्याः केशाः, शिरस्याः केशाः ] शिरस् । शिरसि भवाः । ' दिगादिदेहांशाद् य:' ( ६ । ३ । १२४) यप्र० । अ विकल्पे शीर्षन् ० । 'रषृवर्णान्नो ण० ' (२।३।६३) न० ० । प्र० जस् । [शिरस्यः ] शिरसस्तुल्यः । 'शाखादेर्यः' (७।१।११४) यप्र० । छ || शीर्षः स्वरे तद्धिते ॥ ३२॥१०३॥ [ हास्तिशीर्षिः] हस्तिन् । शिरस् । हस्तिनः शिर इव शिरोऽस्याऽसौ हस्तिशिराः । 'नाम्नो नोऽननः ' (२1१1९१ ) नलोपः । हस्तिशिरसोऽपत्यम् । 'बाहुवादिभ्यो गोत्रे' (६।१।३२ ) इञ्प्र० इ । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy