________________
७२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
[हास्तिपदः] हस्तिपद । हस्तिपदस्याऽपत्यम् । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धि: । 'कौपिञ्जल-हास्तिपदादण' (६।३।१७१) इत्यत्र हास्तिपद इति निर्देशात् ।
[पदिकः] पाद । पादाभ्यां चरति । 'पदिकः' (६।४।१३) पदिक इति निपातः ।।छ।।
ऋचः शसि ॥३।२।९७॥ [श्शसि] शा उपलक्षितः शस् = श्शस्, तस्मिन् ।
[पच्छो गायत्रीं शंसति पाद । पादं २ गायत्र्याः शंसति । 'संख्यैकार्थाद् वीप्सायां शस्' (७।२।१५१) शसप्र० । 'धुटस्तृतीयः' (२११७६) द० → द० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) द० → ज० । 'अघोषे प्रथमोऽशिटः' (१३५०) ज० → च० । 'प्रथमादधुटि शश्छः' (१।३।४) श० →छ० । अम् । अनेन ॥ पदवाक्यगम्यस्य गायत्र्याः पादसंबंधस्य वृत्तौ निवृत्तत्वात्, केन निवृत्तत्वात् ? तद्धितैकार्थे इत्यनेन ।
[पादशः कार्षापणं ददाति पादं पादं कार्षापणस्य ददाति ।
[पादशः श्लोकं व्याचष्टे] पादं (२) श्लोकस्य ददाति (व्याचष्टे) । 'संख्यैकार्थाद् वीप्सायां शस्' (७।२।१५१) शस्प्र० । 'क्रियाविशेषणात्' (२।२।४१) अम् ।।छ।।
शब्द-निष्क-घोष-मिश्रे वा ॥३२१९८॥ [शब्दनिष्कघोषमिश्रे] शब्दश्च निष्कश्च घोषश्च मिश्रश्च = शब्दनिष्कघोषमिश्रम, तस्मिन् । [पच्छब्दः, पादशब्दः] पाद | शब्द । पादयोः शब्दः । [पन्निष्कः, पादनिष्कः] पादयोर्निष्कः । [पद्घोषः, पादघोषः] पादयोर्घोषः । [पन्मिश्रः, पादमिश्रः] पादाभ्यां मिश्रः । अनेन विकल्पे पद० ।।छ।।
नस् नासिकायास्त:-क्षुद्रे ॥३।२।९९॥ [नस्] नस् । प्र० सि । ‘दीर्घड्याब०' (१।४।४५) सिलोपः । [नासिकायाः] नासिका षष्ठी ङस् । 'आपो डितां य-यास्-यास्-याम्' (१।४।१७) यास्० । [त:-क्षुद्रे] तस् च क्षुद्रश्च = तःक्षुद्रम्, तस्मिन् ।
[नस्तः] नासिका । नासिकायाः । 'अहीय-रुहोऽपादाने' (७।२।८८) तस्प० । नासिकायां वा । 'आद्यादिभ्यः' (७।२।८४) तस्प्र० । अनेन नस् ।
[नःक्षुद्रः] नासिकायां नासिकाया वा क्षुद्रः । अनेन नस् ॥छ।।
येऽवणे ॥३।२।१००॥ [ये] य सप्तमी ङि । 'अवर्णस्ये०' (११२१६) ए ।
[अवर्णे] न विद्यते वर्णो यत्र तत् = अवर्णम् । 'नञत्' (३।२।१२५) न० → अ०, तस्मिन् । P. 9 वाक्यगम्यस्य गायत्र्याः प(पा)दसंबंधस्य वृत्तौ निवृत्तत्वात् स्वाभाविक शंसनक्रियापेक्षं कर्मत्वं भवति ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org