SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [हल्लेखः] 'लिखत् अक्षरविन्यासे' (१३३६) लिख । हृदयं ले(लि)खतीति । 'कर्मणोऽण' (५।१।७२) अण्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अनेन हृत् । [हृदयलेखः] हृदयस्य लेखः । [हार्दम] हृदयस्येदम् । 'तस्येदम्' (६।३।१६०) अण्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१).वृद्धिः । अनेन पूर्व हृदादेशस्ततो वृद्धिः आर् । [सौहार्दम्] शोभनं हृदयं यस्य । सुहृदयस्य भावः । 'युवादेरण' (७।१।६७) अण्प्र० । 'हृद्-भग-सिन्धोः ' (७।४।२५) उभयपदवृद्धिः । [दौर्दिम्] दुष्टं हृदयं यस्य । दुहृदयस्य भावः । 'युवादेरण' (७।१।६७) अण्प्र० । 'हृद्-भग-सिन्धोः' (७।४।२५) उभयपदवृद्धिः । [हृद्यः] हृदयस्य प्रियः । हृद्य-पद्य-तुल्य-मूल्य-वश्य-पथ्य-वयस्य-धेनुष्या-गार्हपत्य-जन्य-धर्म्यम् (७।१।११) यप्र० । [हृद्यः] हृदयस्य बन्धनो मन्त्रः । 'हृद्य-पद्य-तुल्य-मूल्य०' (७।१।११) यप्र० । [हृद्यम्] हृदयाय हितम् । 'प्राण्यङ्ग-रथ-खल-तिल-यव-वृष-ब्रह्म-माषाद् यः' (७।१।३७) यप्र० । अनेन हृदादेशः । [सौहार्यम] सुहृदो भावः । 'पति-राजान्त०' (७।१।६०) ट्यणप्र० । 'हृद्-भग-सिन्धोः' (७।४।२५) उभयपदवृद्धिः । [सौहृदय्यम] सुहृदयस्य भावः । पति-राजान्तगुणाङ्गराजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० → य । [हृच्छोकः, हृदयशोकः] हृदयस्य शोकः । हृद्रोगः, हृदयरोगः] हृदयस्य रोगः । [हृच्छड्कुः, हृदयशकुः] हृदयस्य शकुः । [हृच्छूलम्, हृदयशूलम्] हृदयस्य मू(शू)लम् । [हृच्छल्यम्, हृदयशल्यम्] हृदयस्य शल्यम् । [हृद्दाहः, हृदयदाहः] हृदयस्य दाहः । [हृदुःखम्, हृदयदुःखम्] हृदयस्य दुःखम् । [हृत्कमलम्, हृदयकमलम्] हृदयस्य कमलम् । [हृत्पुण्डरीकम्, हृदयपुण्डरीकम्] हृदयस्य पुण्डरीकम् । मतान्तरेऽनेनैव हृदादेशः ।।छ।। पद: पादस्या-55ज्या-5ऽति-गोपहते ॥३।२९५।। [आज्याऽऽतिगोपहते] आजिश्च आतिश्च गश्च उपहतश्च = आज्याऽऽतिगोपहतम्, तस्मिन् । [पदाजिः] पाद । ‘अज क्षेपणे च' (१३९) अज् । पादाभ्यामजति । ‘पादाच्चात्यजिभ्याम्' (उणा० ६२०) णिद् इप्र० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः । अनेन पदादेशः । [पदातिः] पाद । 'अत सातत्यगमने' (२७९) अत् । पादाभ्यामतति । 'पादाच्चात्यजिभ्याम्' (उणा० ६२०) णिद् Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy