SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ।। चत्वारिंशदादौ वा ॥ ३ । २।९३ ॥ [चत्वारिंशदादौ] चत्वारिंशत् आदिर्यस्याऽसौ तस्मिन् । [द्वाचत्वारिंशत्, द्विचत्वारिंशत् ] द्वि । चत्वारिंशत् । द्वाभ्यामधिका चत्वारिंशत्, द्वौ च चत्वारिंशच्चेति वा । [त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत् ] त्रिभिरधिका चत्वारिंशत् । [द्वापञ्चाशत्, द्विपञ्चाशत्] द्वाभ्यामधिका पञ्चाशत् । [त्रयःपञ्चाशत्, त्रिपञ्चाशत् ] त्रिभिरधिका पञ्चाशत् । [अष्टापञ्चाशत्, अष्टपञ्चाशत् ] अष्टभिरधिका पञ्चाशत् । [द्वाषष्टिः, द्विषष्टिः ] द्वाभ्यामधिका षष्टिः । [ त्रयःषष्टिः, त्रिषष्टिः ] त्रिभिरधिका षष्टिः । [ अष्टाषष्टिः, अष्टषष्टिः ] अष्टाभिरधिका षष्टिः । [द्वासप्ततिः, त्रिसप्ततिः ] द्वाभ्यामधिका सप्ततिः । [ त्रयःसप्ततिः, त्रिसप्ततिः ] त्रिभिरधिका सप्ततिः । [ अष्टसप्ततिः, अष्टसप्ततिः ] अष्टाभिरधिका सप्ततिः । [द्वानवतिः, द्विनवतिः ] द्वाभ्यामधिका नवतिः । [त्रयोनवतिः, त्रिनवतिः ] त्रिभिरधिका नवतिः । [अष्टानवतिः, अष्टनवतिः ] अष्टाभिरधिका नवतिः । अनेन द्वा-त्रयस्-अष्टा आदेशः । [ द्व्यशीतिः] द्वाभ्यामधिका अशीतिः । [त्र्यशीतिः ] त्रिभिरधिका अशीतिः । [द्विचत्वारिंशाः ] द्विश्चत्वारिंशत् । द्वौ वारावस्य द्विः पाश्चात्यः समासः । ‘प्रमाणी- संख्या०' (७।३।१२८) डप्र० जस् । Jain Education Intemational । 'द्वि- त्रि- चतुरः सुच्' (७।२।११०) सुच्प्र० →स्, ततः अ । ' डित्यन्त्य० ' (२।१।११४) अत्लोपः । प्रथमाबहु० [त्रिचत्वारिंशाः ] त्रयो वारा अस्य । 'द्वि-त्रि- चतुरः सुच्' (७।२।११०) सुच्प्र०स्, ततः पाश्चात्यः समासः । ‘प्रमाणी-संख्या०' (७।३।१२८) डप्र० अ । 'डित्यन्त्य० ' (२।१।११४) अत्लोपः । प्रथमाबहु० जस् । [ अष्टचत्वारिंशत् ] अष्टौ चत्वारिंशतोऽस्मिन् ॥छ । हृदयस्य हल्लास-लेखा - Sण्-ये ।।३।२।९४।। [लासलेखाऽण्ये] लासश्च लेखश्च अण् च यश्च = लासलेखाऽण्यम्, तस्मिन् । [ हल्लासः ] 'लस श्लेषण - क्रीडनयो:' ( ५४३) लस् । लसनं अ । 'ञ्णिति' (४।३।५० ) उपान्त्यवृद्धिः । हृदयस्य लासः । ६९ = लासः । 'भावा ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० → For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy