SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । [अष्टात्रिंशत् ॥ अष्टभिरधिका त्रिंशत् । अनेन द्वा-त्रयस्-अष्टा निपातः । [पञ्चदश] पञ्चन् । दशन् । पञ्चभिरधिका दश । प्र० जस् । ‘डतिष्णः संख्याया लुप्' (१।४५४) जस्लुप् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । [द्विशतम्] द्वाभ्यामधिकं शतम् । [त्रिशतम्] त्रिभिरधिकं शतम् । [अष्टशतम] अष्टभिरधिकं शतम् । [द्विसहस्रम् द्वाभ्यामधिकं सहस्रम् । [त्रिसहस्रम] त्रिभिरधिकं सहस्रम् । [अष्टसहस्त्रम्] अष्टभिरधिकं सहस्रम् । [व्यशीतिः] द्वाभ्यामधिका अशीतिः । [त्र्यशीतिः] त्रिभिरधिका अशीतिः । [वित्राः] द्वौ वा त्रयो वा = द्वित्राः । 'सुज्-वाऽर्थे संख्या संख्येये संख्यया बहुव्रीहिः' (३।१।१९) इति बहुव्रीहिः । 'प्रमाणी-संख्या०' (७।३।१२८) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) इलोपः । [त्रिचतुराः] त्रयो वा चत्वारो वा । 'नञ्-सु-व्युप-त्रेश्चतुरः' (७।३।१३१) अप्समासान्तः । [अष्टनवाः] अष्टौ वा नवा(व) वा । [द्विदशा:] द्विर्दश । 'प्रमाणी-संख्या०' (७।३।१२८) डप्र० → अ । 'डित्यन्त्यस्वरादे:' (२११११४) अन्लोपः । जस् । [त्रिदशाः] त्रिर्दश । 'प्रमाणी-संख्या०' (७।३।१२८) डप्र० → अ । 'डित्यन्त्यस्वरादे:' (२।१।११४) अन्लोपः । जस् । द्वैमातुरः] द्वि । मातृ । द्वयोर्मात्रीरपत्यम् । 'संख्या-सं-भद्रान्मातुर्मातुर्च' (६।१।६६) अणप्र० - मातुर् च आदेशः । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । [त्रैमातुरः] तिसृणां मातॄणामपत्यम् । ‘संख्या सं-भद्रान्मातुर्मातुर्च' (६।१।६६) अण्प्र० - मातुर् च आदेशः । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । [आष्टमातुरः] अष्टानां मातॄणामपत्यम् । 'संख्या-सं-भद्रान्मातुर्मातुर्च' (६१।६६) अण्प्र० - मातुर् च आदेशः । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः । [द्विमुनि व्याकरणस्य द्वौ मुनी कर्तारौ व्याकरणस्य । [त्रिमुनि व्याकरणस्य त्रयो मुनयः कर्त्तारो व्याकरणस्य । 'ऐकार्यु' (३।२।८) वाक्यमध्यस्था विभक्तिलोपः ।।छ।। P.फ अष्टाभिरधिका त्रिंशत् । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy