________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[षोडन] षष् दन्त । षड् दन्ता अस्य । 'वयसि दन्तस्य दतृः' (७१३।१५१) दत्रादेशः दत् । षषोऽन्तस्य उत्वम्-डस्य उत्वं (?) (दस्य डत्वं) च । प्र० सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'दीर्घयाब०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।
[षोडन्तौ] षड् दन्ता ययोः, तौ । [षोडन्तः] षड् दन्ता येषां, ते ।
[षोडनी] स्त्रियां तु 'अधातूदृदितः' (२।४।२) डी ।
[षोडीयति] षड़ दन्ता अस्य । मतान्तरे “षोडन' निपातः । षोडानमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'नाम्नो नोऽननः' (२।१।९१) नलोपः । 'क्यनि' (४।३।११२) ई । षोडीयतीति सिद्ध्यति, स्वमते षोडत्य(न्य)ति ।
[षोढा] षष् । षड्भिः प्रकारैः । 'संख्याया धा' (७।२।१०४) धाप्र० । अनेन षषोऽन्तस्य उत्वम्-धस्य ढत्वम् ।
[षड्ढा] षष् । षड्भिः प्रकारैः । 'संख्याया धा' (७।२।१०४) धाप्र० । द्वितीये षषोऽन्तस्य उत्वं न । 'तृतीयस्तृतीयचतुर्थे' (१।३।४९) षस्य ड० । 'तवर्गस्य श्चवर्ग०' (१३।६०) धस्य ढत्वम् ।
[षड्धा] षष् 'डुधांग्क् धारणे च' (११३९) धा । 'ट्धे पाने' (२८) धे । 'आत् सन्ध्यक्षरस्य' (४।२१) धा । षड् दधाति धयति वा । ‘आतो डोऽह्वा-वा-मः' (५।१७६) डप्र० → अ । 'डित्यन्त्यस्वरादे:' (२।१।११४) आलोपः । 'आत्' (२।४।१८) आप्प० → आ ।।छ।।
द्वि-त्र्यष्टानां द्वा-त्रयो-ऽष्टाः प्राक् शतादनशीति-बहुव्रीही ॥३।२।१२।। [द्वित्र्यष्टानाम] द्वौ च त्रयश्च अष्टौ च = द्वित्र्यष्टानस्तेषाम् = द्वित्र्यष्टानाम् । षष्ठी आम् । 'संख्यानां ाम्' (१।४।३३) नाम् । 'नाम्नो नोऽनहनः' (२।१९१) नलोपः । 'दी| नाम्यतिस-चतसृ-प्रः' (१।४।४७) दीर्घः ।
[द्वात्रयोष्टाः] द्वा च त्रयश्च अष्टा च, जस् ।
[प्राक] प्राक् । प्र० सि । 'अव्ययस्य' (३।२७) सिलोपः ।
[शतादनशीतिबहुव्रीहौ] अशीतिश्च बहुव्रीहिश्च = अशीतिबहुव्रीहिः, न अशीतिबहुव्रीहिरनशीतिबहुव्रीहिः । 'अन् स्वरे' (३।२।१२९) अन्, तस्मिन् ।
द्वादश] द्वि । दशन् । द्वाभ्यामधिका दश, द्वौ च दश च वा ।
[द्वाविंशतिः] द्वाभ्यामधिका विंशतिः ।
[द्वात्रिंशत् द्वाभ्यामधिका त्रिंशत् ।
[त्रयोदश] त्रिभिरधिका दश ।
[त्रयोविंशतिः] त्रिभिरधिका विंशतिः । [त्रयस्त्रिंशत्] त्रिभिरधिका त्रिंशत् । द्विश्च त्रिश्च अष्टा च ।
P.
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org